सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 421, कुल 496 में से
संदर्भ में पढ़ेंअमृताधिगमः ] सप्तदशः सर्गः ३६७
अथ प्रहाणात् सुखदुःखयोश्च मनोविकारस्य च पूर्वमेव ।
दध्यावुपेक्षास्मृतिमद्विशुद्धं ध्यानं तथाऽदुःखसुखं चतुर्थम् ॥ ५४ ॥
अन्वयः—अथ सुख-दुःखयोश्च प्रहाणात् मनोविकारस्य च पूर्वम् एव तथा अदुःख-
सुखम् उपेक्षास्मृतिमद् विशुद्धं चतुर्थं ध्यानं दध्यौ ॥ ५४ ॥
व्याख्या—अथ = तदनन्तरम्, सुखदुःखयोश्च = हर्षविषादयोश्च, प्रहाणात् =
परिवर्जनात्, मनोविकारस्य=चित्तविकृतेः, च = पुनः, पूर्वम्=प्राक्, एव, तथा = तेनैव
रूपेण, अदुःखसुखम् = हर्ष-विषादरहितम्, उपेक्षास्मृतिमद् = निःसङ्गताऽऽध्यानसमन्वि-
तम्, विशुद्धम् = परिशुद्धम्, चतुर्थम् = तुरीयम्, ध्यानम् = अनुचिन्तनम्, दध्यौ =
अग्रासीत् । चतुर्थध्यानं तु सुख-दुःखविरहितं भवति । अनेनैवार्हत्त्वं सम्भवति ॥५४॥
हिन्दी—तब हर्ष-विषाद का परित्यागकर और मनोविकार को पहले से ही हटा-
कर वह सुख-दुःख से रहित, उपेक्षा और स्मृतियुक्त विशुद्ध चतुर्थ ध्यान को प्राप्त
किया ॥ ५४ ॥
यस्मात्तु तस्मिन्न सुखं न दुःखं ज्ञानं च तत्रास्ति तदर्थचारि ।
तस्मादुपेक्षास्मृतिपारिशुद्धिर्निरुच्यते ध्यानविधौ चतुर्थे ॥ ५५ ॥
अन्वयः—यस्मात् तस्मिन् न तु सुखं न दुःखं तत्र च तदर्थचारि ज्ञानम् अस्ति,
तस्मात् चतुर्थे ध्यानविधौ उपेक्षास्मृतिपारिशुद्धिः निरुच्यते ॥ ५५ ॥
व्याख्या—यस्मात् = यतोहि, तस्मिन् = तत्र, न = नहि, तु सुखम् = हर्षम्, न
दुःखम्=न विषादम्, तत्र = तस्मिन् ध्याने, तदर्थचारि— सः चासौ अर्थः तदर्थः, तदर्थं-
चरितुं शीलमस्येति तदर्थचारि = लक्ष्यसाधकम्, ज्ञानम् = बोधः, अस्ति = विद्यते,
तस्मात् = तेन हेतुना, चतुर्थे = तुरीये, ध्यानविधौ = अनुध्यानवृत्तौ, उपेक्षास्मृतिपारि-
शुद्धिः = उपेक्षास्मृतिजन्यशुद्धिः, निरुच्यते = निश्चयेन कथ्यते ॥ ५५ ॥
हिन्दी—क्योंकि उस ध्यान में न सुख है और न दुःख ही है और है केवल लक्ष्य
का साधकज्ञान, अतः चतुर्थ ध्यानविधि में स्मृति और उपेक्षा के द्वारा शुद्ध होती है,
ऐसा निश्चयपूर्वक कहा जा सकता है ॥ ५५ ॥
ध्यानं स निश्चित्य ततश्चतुर्थमर्हत्त्वलाभाय मतिं चकार ।
सङ्घाय मित्रं बलवन्तमार्यं राजेव देशानजितान् जिगीषुः ॥ ५६ ॥
अन्वयः—ततः सः चतुर्थं ध्यानं निश्चित्य अर्हत्त्वलाभाय बलवन्तम् आर्यं मित्रं
सङ्घाय अजितान् देशान् जिगीषुः राजा इव मतिं चकार ॥ ५६ ॥
व्याख्या—ततः = तत्पश्चात्, सः = नन्दः, चतुर्थम् = तुरीयम्, ध्यानम् = आध्या-
नम्, निश्चित्य = अवलम्ब्य, अर्हत्त्वलाभाय = मोक्षप्राप्तये, बलवन्तम् = शक्तिशालिनम्,
आर्यम् = श्रेष्ठम्, मित्रम् = सहायकम्, सङ्घाय = सम्प्राप्य, अजितान् = अपराजितान्,
देशान् = जनस्थानानि, जिगीषुः = विजेतुमिच्छुः, राजा = नरपतिः, इव = यथा,
मतिम् = बुद्धिम्, चकार = कृतवान् ॥ ५६ ॥