सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 318, कुल 496 में से
संदर्भ में पढ़ें२६४ सौन्दरनन्दं महाकाव्यम्
हिन्दी—आँखों से रूप को देखकर पृथिवी प्रभृति पञ्चतत्त्व से निर्मित यह देह है—
ऐसा ही अपना ध्यान स्थिर करना चाहिए। यह स्त्री है या पुरुष है—ऐसी कल्पना
नहीं करनी चाहिए ॥ ४२ ॥
.स चेत् स्त्रीपुरुषग्राहः क्वचिद्विद्येत कश्चन ।
शुभतः केशदन्तादीन्नानुप्रस्थातुमर्हसि ॥ ४३ ॥
अन्वयः—स चेत् क्वचित् कश्चन स्त्रीपुरुषग्राहः विद्येत, केशदन्तादीन् शुभतः
अनुप्रस्थातुं न अर्हसि ॥ ४३ ॥
व्याख्या—स चेत् = यदि, क्वचित् = कुत्राऽपि, कश्चन = कोऽपि, स्त्रीपुरुषग्राहः—
स्त्री च = नारी च, पुरुषश्च = नरश्च, तयोः ग्राहः = अवहारः इति, विद्येत = भवेत्,
तर्हि केशदन्तादीन् = कचदशनप्रभृतीन्, शुभतः = सौन्दर्यात्, अनुप्रस्थातुम् = अनुगन्तुम्,
न = नहि, अर्हसि = योग्योऽसि ॥ ४३ ॥
हिन्दी—यह स्त्री है या पुरुष है—यदि ऐसी कोई समझ कहीं हो जाय तो केश,
दांत आदि में तुम्हें उनका रूप-सौन्दर्य नहीं देखना चाहिए ॥ ४३ ॥
नापनेयं ततः किञ्चित् प्रक्षेप्यं नापि किञ्चन ।
द्रष्टव्यं भूततो भूतं यादृशं च यथा च यत् ॥ ४४ ॥
अन्वयः—ततः न किञ्चित् अपनेयं नाऽपि किञ्चन प्रक्षेप्यं यादृशं यथा च यत्
च भूतं भूततः द्रष्टव्यम् ॥ ४४ ॥
व्याख्या—ततः = तद्रूपात्, न = नहि, किञ्चित् = किमपि, अपनेयम् = असंलग्ने-
यम्, नाऽपि = न तु, किञ्चन = किमपि, प्रक्षेप्यम् = अपासनीयम्, यादृशम् = यत्स्व-
रूपम्, यथा च = यत्प्रकारञ्च, यच्च = यत्किञ्चिदपि, भूतम् = तथ्यम्, भूततः =
यथार्थतः, द्रष्टव्यम् = अवलोकनीयम् ॥ ४४ ॥
हिन्दी—उस रूप में न कुछ जोड़ना चाहिए और न कुछ हटाना चाहिए, उस
प्राणी के स्वरूप को देखना चाहिए कि वह कैसा है ? कैसे हैं ? और क्या है ? ॥४४॥
एवं ते पश्यतस्तत्त्वं शश्वदिन्द्रियगोचरम् ।
भविष्यति पदस्थानं नाभिध्यादौर्मनस्ययोः ॥ ४५ ॥
अन्वयः—एवम् इन्द्रियगोचरं तत्त्वं शश्वत् पश्यतः ते अभिध्यादौर्मनस्ययोः
पदस्थानं न भविष्यति ॥ ४५ ॥
व्याख्या—एवम् = अनेन प्रकारेण, इन्द्रियगोचरम् = करणविषयं, तत्त्वम् = सारम्,
शश्वत् = अक्षयः, पश्यतः = अवलोकयतः, ते = तव, अभिध्यादौर्मनस्ययोः—अभिध्या
= स्पृहा, दौर्मनस्यम् = दुष्टबुद्धिः, तयोः, पदस्थानम् = शरण्यम्, न = नहि, भविष्यति
= भविता ॥ ४५ ॥
हिन्दी —इस तरह वे निरन्तर दृष्टिगोचर तत्त्व को देखते हुए भी लोभ और
संताप तुम्हारे दिल में जगह नहीं पा सकेंगे ॥ ४५ ॥