सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 317, कुल 496 में से
संदर्भ में पढ़ेंशीलेन्द्रियजयः ] त्रयोदशः सर्गः २६३
अन्वयः—लोके हि सततं विषयान् अभिकाङ्क्षतां तेषां कार्पण्यात् आशावतां
शूनामिव संवित् नैव अस्ति ॥ ३९ ॥
व्याख्या—लोके = संसारे, हि = इति निश्चयेन, सततम् = सर्वदा, विषयान् =
भोगान्, अभिकाङ्क्षताम् = अभिलषिताम्, तेषाम् = जनानाम्, कार्पण्यात् = दैन्यात्,
आशावताम् = तृष्णावताम्, शूनामिव = कुक्कुराणामिव, संवित् = ज्ञानम्, नैवास्ति
= न विद्यते ॥ ३९ ॥
हिन्दी—तृष्णावान् कुत्ते की तरह संसार में सदा विषयों की अभिलाषा करने
वालों का ज्ञान नष्ट हो जाता है ॥ ३९ ॥
विषयैरिन्द्रियग्रामो न तृप्तिमधिगच्छति ।
अजस्रं पूर्यमाणोऽपि समुद्रः सलिलैरिव ॥ ४० ॥
अन्वयः—विषयैः इन्द्रियग्रामः तृप्तिं न अधिगच्छति, सलिलैः अजस्रं पूर्यमाणोऽपि
समुद्रः इव ॥ ४० ॥
व्याख्या - विषयैः = भोगैः, इन्द्रियग्रामः = करणसमूहः, तृप्तिम् = तुष्टिम्, न =
नहि, अधिगच्छति = याति, यथा—सलिलैः = जलैः, अजस्रम् = सततम्, पूर्यमाणोऽपि
= सम्पूरितोऽपि, समुद्रः = सागरः, तुष्टिं न प्राप्नोति ॥ ४० ॥
हिन्दी—विषयों के उपभोग से इन्द्रियां सन्तुष्ट नहीं होती, ठीक उसी तरह जैसे
निरन्तर जल की आपूर्त्ति होते रहने पर भी समुद्र नहीं भरता है ॥ ४० ॥
अवश्यं गोचरे स्वे स्वे वर्तितव्यमिहेन्द्रियैः ।
निमित्तं तत्र न ग्राह्यमनुव्यञ्जनमेव च ॥ ४१ ॥
अन्वयः—इन्द्रियैः स्वे-स्वे गोचरे अवश्यं वर्तितव्यम्, तत्र निमित्तम् अनुव्यञ्जनम्
एव च न ग्राह्यम् ॥ ४१ ॥
व्याख्या—इन्द्रियैः = करणैः, स्वे-स्वे = स्वकीये-स्वकीये, गोचरे = विषये, अवश्यम्
= नियतम्, वर्त्तितव्यम् = व्यवहर्त्तव्यम्, तत्र = तस्मिन् विषयेषु, निमित्तम् = लिङ्गा-
दिकम्, अनुव्यञ्जनम् = अनुरञ्जनम्, एव च न = नहि, ग्राह्यम् = स्वीकर्त्तव्यम् ॥ ४१ ॥
हिन्दी—इन्द्रियां तो अपने-अपने विषय में रहेगी ही, किन्तु उनमें निमित्त अर्थात्
लिङ्ग, आकृति आदि और अनुरंजन को स्वीकार नहीं करना चाहिए ॥ ४१ ॥
आलोक्य चक्षुषा रूपं धातुमात्रे व्यवस्थितः ।
स्त्री वेति पुरुषो वेति न कल्पयितुमर्हसि ॥ ४२ ॥
अन्वयः—चक्षुषा रूपं विलोक्य धातुमात्रे व्यवस्थितः स्त्री वा पुरुषो वा इति
कल्पयितुं न अर्हसि ॥ ४२ ॥
व्याख्या—चक्षुषा = लोचनेन, रूपम् = आकृतिम्, अर्थात् नेत्रग्राह्यविषयम्,
विलोक्य = दृष्ट्वा, धातुमात्रे = पृथिव्यादितत्त्वमात्रे, व्यवस्थितः = अवस्थितः सन्,
स्त्री वा = नारी वा, पुरुषो वा = नरो वा, इति = एवम्, कल्पयितुम् = चिन्तयितुम्, न
= नहि, अर्हसि = योग्योऽसि ॥ ४२ ॥