सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 316, कुल 496 में से
संदर्भ में पढ़ें२६२ सौन्दरनन्दं महाकाव्यम्
मनुष्यहरिणान् घ्नन्ति कामव्याधेरिता हृदि ।
विहन्यन्ते यदि न ते ततः पतन्ति तैः क्षताः ॥ ३६ ॥
अन्वयः—कामव्याधेरिताः मनुष्यहरिणान् हृदि घ्नन्ति यदि ते न विहन्यन्ते, ततः
तैः क्षताः पतन्ति ॥ ३६ ॥
व्याख्या—कामव्याधेरिताः—कामः = मदनः, एव व्याधः=लुब्धकः, तेन इरिताः=
प्रेरिताः, मनुष्यहरिणान्—मनुष्यः = मानवः, एव हरिणः = मृगस्तान्, हृदि = हृदये,
घ्नन्ति = प्रहरन्ति, यदि = चेत्, ते = शराः, न = नहि, विहन्यन्ते = वार्यन्ते, ततः तैः
=शरैः, क्षताः = हताः, पतन्ति = च्यवन्ति ॥ ३६ ॥
हिन्दी—काम रूपी बहेलिए के द्वारा चलाये गये वे तीर मानवरूपी हिरन के
हृदय में घुसते हैं, यदि उन्हें रोका न जाय तो उससे घायल होकर मनुष्य गिर
जाते हैं ॥ ३६ ॥
नियमाजिरसंस्थेन धैर्यकार्मुकधारिणा ।
निपतन्तो निवार्यास्ते महता स्मृतिवर्मणा ॥ ३७ ॥
अन्वयः—नियमाजिरसंस्थेन धैर्यकार्मुकधारिणा महता स्मृतिवर्मणा निपतन्तः
ते निवार्याः ॥ ३७ ॥
व्याख्या—नियमः = व्यवस्था, एव अजिरः = चत्वरः, तस्मिन् संस्थेन = स्थितेन,
धैर्यकार्मुकधारिणा—धैर्यः = धृतिरेव, कार्मुकंः = चापस्तं धारयति = ग्रहणं करोति,
तेन, महता = कठोरेण, स्मृतिवर्मणा—स्मृतिः = अनुचिन्तनम्, एव वर्म = कवचम्,
यस्य तेन, निपतन्तः = पतन्तः, ते = शराः, निवार्याः = अपसारणीयाः सन्तीति ॥३७॥
हिन्दी—नियम रूपी आंगन में खड़ा होकर, धीरज रूपी धनुष धारण कर स्मृति
रूपी कठोर कवच पहन कर, उन गिरते हुए तीरों को रोकना चाहिए ॥ ३७ ॥
इन्द्रियाणामुपशमादरीणां निग्रहादिव ।
सुखं स्वपिति वास्ते वा यत्र तत्र गतोद्धवः ॥ ३८ ॥
अन्वयः—इन्द्रियाणां उपशमात् अरीणां निग्रहात् इव ते यत्र तत्र वा सुखं
स्वपिति गतोद्धवः वा आस्ते ॥ ३८ ॥
व्याख्या—इन्द्रियाणाम् = करणानाम्, उपशमात्=निग्रहात्, अरीणाम् = शत्रूणाम्,
निग्रहात् = उपशमात्, इव = यथा, ते = जनाः, यत्र तत्र = यस्मिन् तस्मिन् स्थाने,
वा = अथवा, सुखम् = सहर्षम्, स्वपिति = शयनं करोति, गतोद्धवः = अनुचिन्तन-
रहितः, वा = अथवा, आस्ते = तिष्ठति ॥ ३८ ॥
हिन्दी—इन्द्रियों के शान्त होने पर मनुष्य उसी तरह निश्चिन्त हो जाता है, जैसे
दुश्मन के शान्त हो जाने पर कोई व्यक्ति जहाँ-तहाँ सोता है या बैठता है ॥ ३८ ॥
तेषां हि सततं लोके विषयानभिकाङ्क्षताम् ।
संविन्नैवास्ति कार्पण्याच्छूनामाशावतामिव ॥ ३९ ॥