सामग्री पर जाएँ
सर्वकोश
सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

पृष्ठ 315, कुल 496 में से

संदर्भ में पढ़ें
पृष्ठ 315

शीलेन्द्रियजयः ] त्रयोदशः सर्गः २६१
हिन्दी—द्वेष करने वाले दुश्मनों से कोई कभी पीड़ित होता है, अथवा नहीं भी;
किन्तु इन्द्रियों से सभी सब जगह, सब समय पीड़ित होते हैं ॥ ३२ ॥
न च प्रयाति नरकं शत्रुप्रभृतिभिर्हतः ।
कृष्यते तत्र निघ्नस्तु चपलैरिन्द्रियैर्हतः ॥ ३३ ॥
अन्वयः—शत्रुप्रभृतिभिः हतः च नरकं न प्रयाति, चपलैः इन्द्रियैः हतस्तु निघ्नः
तत्र कृष्यते ॥ ३३ ॥
व्याख्या—शत्रुप्रभृतिभिः =सपत्नादिभिः, हतः=मारितः, च=पुनः, नरकम् =
दुःखपूर्णस्थानम्, न=नहि, प्रयाति=याति, चपलैः = चञ्चलैः, इन्द्रियैः = करणैः,
हतस्तु = मारितस्तु, निघ्नः = पराश्रितः, तत्र = नरके, कृष्यते=कर्षयित्वा नीयते ॥३३॥
हिन्दी—दुश्मनों के हाथ मरकर मनुष्य नरक नहीं जाता है, किन्तु चंचल इन्द्रियों
का मारा बेचारा घसीटकर नरक ले जाया जाता है ॥ ३३ ॥
हन्यमानस्य तैर्दुःखं हार्दं भवति वा न वा ।
इन्द्रियैर्बाध्यमानस्य हार्दं शारीरमेव च ॥ ३४ ॥
अन्वयः—तैः हन्यमानस्य हार्दं दुःखं भवति, वा न वा इन्द्रियैः बाध्यमानस्य हार्दं
शारीरम् एव च दुःखं भवति ॥ ३४ ॥
व्याख्या—तैः=अरिभिः, हन्यमानस्य=ताड्यमानस्य, हार्दम्=हार्दिकम्, दुःखम्
=पीडाम्, भवति=जायते, वा न वा=अथवा नापि भवति, इन्द्रियैः=करणैः,
बाध्यमानस्य=हन्यमानस्य, हार्दम् = मानसम्, शारीरम् = दैहिकञ्च, दुःखम्=
कष्टम्, भवति ॥ ३४ ॥
हिन्दी—उन दुश्मनों से मारे जाने पर किसी को मानसिक दुःख होता है या
नहीं भी होता है, किन्तु इन इन्द्रियों से पीड़ित होने वाले को शारीरिक एवं मानसिक
दोनों ही कष्ट होते हैं ॥ ३४ ॥
सङ्कल्पविषदिग्धा हि पञ्चेन्द्रियमयाः शराः ।
चिन्तापुङ्खा रतिफला विषयाकाशगोचराः ॥ ३५ ॥
अन्वयः—सङ्कल्पविषदिग्धाः हि पञ्चेन्द्रियमयाः शराः चिन्तापुङ्खाः रतिफलाः
विषयाकाशगोचराः ( सन्ति ) ॥ ३५ ॥
व्याख्या—सङ्कल्पविषदिग्धाः—सङ्कल्पः = चिकीर्षाः, एव विषः=गरलः, तेन
दिग्धाः = लिप्ताः, हि=यत:, पञ्चेन्द्रियमयाः=पञ्चकरणयुक्ताः, शराः=बाणाः,
चिन्तापुङ्खाः = उद्वेगपक्षाः, रतिफलाः—रतिः=प्रीतिः, एव फलम्=परिणामम्, येषां
ते, विषयाकाशगोचराः—विषयाः=इन्द्रियाः, एव आकाशः=गगनम्, तस्मिन्
गोचराः = इन्द्रियगम्याः सन्ति ॥ ३५ ॥
हिन्दी—संकल्प रूपी विष से लिप्त पञ्चेन्द्रियरूपी तीर, चिन्ताएं जिनकी पांखें
हैं और रति ही जिनका लक्ष्य है—विषय रूपी आकाश में चलते हैं ॥ ३५ ॥