सामग्री पर जाएँ
सर्वकोश
सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

पृष्ठ 314, कुल 496 में से

संदर्भ में पढ़ें
पृष्ठ 314

२६० सौन्दरनन्दं महाकाव्यम्
व्याख्या—सौम्य ! = हे विनम्र ! यतः = यस्मात् कारणात्, शीलम् = सत्या-
चरणम्, एतत्स्थानम् = एवंविधमस्ति, अतः = अनेन कारणेन, शीलम् = आचारम्,
संस्कर्त्तुम् = परिष्कर्त्तुम्, अर्हसि = योग्योऽसि, मोक्षारम्भेषु = मोक्षोपक्रान्तेषु, योगि-
नाञ्च = तापसानाञ्च, अनन्यम् = अद्वितीयमस्ति ॥ २९ ॥
हिन्दी—क्योंकि शील ऐसा है, अतः तुम्हें इस शील को परिष्कृत करना चाहिए।
मुक्ति के लिए प्रारम्भ करनेवाले योगियों के लिए भी यह एकमात्र सहारा है ॥२९॥
ततः स्मृतिमधिष्ठाय चपलानि स्वभावतः ।
इन्द्रियाणीन्द्रियार्थेभ्यो निवारयितुमर्हसि ॥ ३० ॥
अन्वयः—ततः स्मृतिम् अधिष्ठाय स्वभावतः चपलानि इन्द्रियाणि इन्द्रियार्थेभ्यः
निवारयितुम् अर्हसि ॥ ३० ॥
व्याख्या—ततः = तस्मात्, स्मृतिम् = आध्यानम्, अधिष्ठाय = व्यवस्थितं कृत्वा,
स्वभावतः = प्रकृत्या, चपलानि = चञ्चलानि, इन्द्रियाणि = करणानि, इन्द्रियार्थेभ्यः =
उपभोग्येभ्यः, निवारयितुम् = दूरीकर्त्तुम्, अर्हसि = योग्योऽसि ॥ ३० ॥
हिन्दी—तब अपनी बुद्धि को स्थिर कर तुम्हें स्वभाव से चंचल इन्द्रियों को
विषयों से हटाना चाहिए ॥ ३० ॥
भेतव्यं न तथा शत्रोर्नग्नेर्नहेर्न चाशनेः ।
इन्द्रियेभ्यो यथा स्वेभ्यस्तैरजस्रं हि हन्यते ॥ ३१ ॥
अन्वयः—तथा न शत्रोः न अग्नेः न अहेः न अशनेः भेतव्यम्, यथा स्वेभ्यः
इन्द्रियेभ्यः हि तैः अजस्रं हन्यते ॥ ३१ ॥
व्याख्या—तथा = तद्वत्, न शत्रोः = नारातेः, न = नहि, अग्नेः = वह्नेः, न =
नहि, अहेः = नागात्, न अशनेः = न वज्रात्, भेतव्यम् = भयं कुर्यात्, यथा = येन
प्रकारेण, स्वेभ्यः = स्वकीयेभ्यः, इन्द्रियेभ्यः = करणेभ्यः, हि = यतः, तैः = विषयैः,
अजस्रम् = सततम्, हन्यते = प्रह्रियते ॥ ३१ ॥
हिन्दी—दुश्मन, सांप, आग या वज्र से भी उतना नहीं डरना चाहिए जितना
अपनी ही इन्द्रियों से; क्योंकि वे निरन्तर प्रहार करती रहती है ॥ ३१ ॥
द्विषद्भिः शत्रुभिः कश्चित् कदाचित् पीड्यते न वा ।
इन्द्रियैर्बाध्यते सर्वः सर्वत्र च सदैव च ॥ ३२ ॥
अन्वयः—द्विषद्भिः शत्रुभिः कश्चित् कदाचित् पीड्यते, न वा इन्द्रियैः सर्वः सर्वत्र
च सदैव च बाध्यते ॥ ३२ ॥
व्याख्या—द्विषद्भिः = द्वेषणैः, शत्रुभिः = अरिभिः, कश्चित् = कोऽपि, कदाचित् =
कदापि, पीड्यते = कष्टं भवति, न वा = अथवा नाऽपि भवति, इन्द्रियैः = करणैः, सर्वः
= अखिलः, सर्वत्र = सर्वतोभावेन सर्वस्मिन् स्थाने, च = पुनः, सदैव च = सततञ्च,
बाध्यते = पीड्यते ॥ ३२ ॥