सामग्री पर जाएँ
सर्वकोश
सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

पृष्ठ 313, कुल 496 में से

संदर्भ में पढ़ें
पृष्ठ 313

शीलेन्द्रियजयः ] त्रयोदशः सर्गः २४९
अन्वयः—अहृल्लेखस्य मनसः तु उपनिषत् शुचिः शीलम्, इति शीलम् अग्रयं
नयति, अतः शीलं विशोधय ॥ २६ ॥
व्याख्या—अहृल्लेखस्य = अपीडितस्य, मनसः = चित्तस्य, तु उपनिषद् = आधारः,
शुचिः = पावनम्, शीलम् = स्वभावः, इति = इत्थम्, शीलम् = आचारम्, अग्रयम् =
प्राधान्यम्, नयति = श्रेष्ठत्वसमीपमानयति, अतः = अस्मादेव कारणात्, शीलम् =
आचारं, विशोधय = विशेषतः परिष्कारं कुरु ॥ २६ ॥
हिन्दी—मानसिक पीड़ा के अभाव का रहस्य है—पवित्र शील। इस तरह
शील की ही प्रधानता है। अतः श्रेष्ठता की ओर ले जानेवाला अग्रसर इस शील को
ही पवित्र करो ॥ २६ ॥
शीलनाच्छीलमित्युक्तं शीलनं सेवनादपि ।
सेवनं तन्निदेशाच्च निदेशश्च तदाश्रयात् ॥ २७ ॥
अन्वयः—शीलनात् शीलम् इति उक्तम्, शीलनमपि सेवनात् सेवनं च
तन्निदेशात् निदेशश्च तदाश्रयात् ( भवति ) ॥ २७ ॥
व्याख्या—शीलनात् = पौनःपुनिकाभ्यासात्, शीलम् = सञ्जीवनम्, इति = एवम्,
उक्तम् = कथितम्, शीलनमपि = अनेकधाऽभ्यासोऽपि, सेवनात् = उपासनात्, सेवनम्
= निषेवणम्, च = पुनः, तन्निदेशात् = तदुत्कटेच्छायाः, निदेशश्च = तदासक्तिश्च,
तदाश्रयात् = तदवष्टम्भात्, भवति ॥ २७ ॥
हिन्दी—शीलन से शील कहा गया है, शीलन सेवन, अर्थात् बार-बार के
अभ्यास से होता है; सेवन किसी वस्तु की उत्कट इच्छा होने से होता है और इच्छा
उसके ही आश्रय से होती है ॥ २७ ॥
शीलं हि शरणं सौम्य ! कान्तार इव दैशिकः ।
मित्रं बन्धुश्च रक्षा च धनं च बलमेव च ॥ २८ ॥
अन्वयः—सौम्य ! शीलं हि कान्तारे दैशिकः इव शरणं मित्रं बन्धुश्च रक्षा च
धनं च बलमेव च भवति ॥ २८ ॥
व्याख्या—सौम्य ! = हे विनम्र ! शीलम् = सदाचरणम्, हि = इति निश्चयेन,
कान्तारे = महद्वने, दैशिकः = मार्गदर्शकः, इव = यथा, शरणम् = शरण्यम्, मित्रम् =
सुहृदम्, बन्धुश्च = सजातीयश्च, रक्षा च = त्राणञ्च, धनञ्च = वैभवञ्च, बलमेव च =
शक्तिरेव च, भवति = अस्ति ॥ २८ ॥
हिन्दी—हे विनत ! शील ही शरण है, घोर जंगल में पथ-प्रदर्शक की तरह है;
मित्र, बन्धु, रक्षक, धन और बल है ॥ २८ ॥
यतः शीलमतः सौम्य ! शीलं संस्कृतुमर्हसि ।
एतत्स्थानमन्यान्ये च मोक्षारम्भेषु योगिनाम् ॥ २९ ॥
अन्वयः—सौम्य ! यतः शीलम् एतत्स्थानम् अतः शीलं संस्कृतुमर्हसि, मोक्षां-
रम्भेषु योगिनाञ्च अनन्यम् ( अस्ति ) ॥ २९ ॥