सामग्री पर जाएँ
सर्वकोश
सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

पृष्ठ 309, कुल 496 में से

संदर्भ में पढ़ें
पृष्ठ 309

शीलेन्द्रियजयः ] त्रयोदशः सर्गः २५५
अहिंसा, अनास्तेयम् अव्यभिचाराश्चेति, तथा वाण्याः चत्वारि सत्कर्माणि सन्ति—
सत्य-अपरुष-अजल्पन-अपिशुनता चेति, अनेन प्रकारेण त्रीणि शरीरकर्माणि, चत्वारि
वाण्याः कर्माणि, सप्ताङ्गे कर्मणि, शौचात्=स्वच्छतायाः, शौचादिति पाठोऽयम-
निश्चितः । आजीवसमुदाचारम् = आजीविकोचितव्यवहारः, संस्कर्तुम् = परिष्कर्तुम्,
अर्हसि = योग्योऽसि ॥ १३ ॥
हिन्दी—देह और वाणी की शुद्धि में तथा उनके सात कर्मों की पवित्रता में अपनी
आजीविका के व्यवहार को पवित्र बनाओ ॥ १३ ॥
दोषाणां कुहनादीनां पञ्चानामनिषेवनात् ।
त्यागाच्च ज्योतिषादीनां चतुर्णां वृत्तिघातिनाम् ॥ १४ ॥
अन्वयः —कुहनादीनां पञ्चानां दोषाणाम् अनिषेवनात् वृत्तिघातिनां चतुर्णां
ज्योतिषादीनां त्यागात् चेति ॥ १४ ॥
व्याख्या—कुहनादीनाम्=दम्भकपटादीनाम्, पञ्चानाम् = पञ्चसङ्ख्याकानाम्,
दोषाणाम् = दुर्गुणानाम्, अनिषेवनात्=अनानाराधनात्, वृत्तिघातिनाम्—वृत्तिं हन्तीति
वृत्तिघातिनस्तेषां = सद्वृत्तिहन्तॄणाम्, चतुर्णाम् = चतुःसङ्ख्यकानाम्, ज्योतिषादीनाम्
ज्योतिषायुर्वेदादीनां चतुर्णां व्यवसायानाम्, त्यागाच्च = अपासनाच्चेति ॥ १४ ॥
हिन्दी—कपट प्रभृति पाँच दोषों का परित्याग कर, सद्वृत्ति की हत्या करने वाले
ज्योतिष, आयुर्वेदादि चार व्यवसायों का परित्याग करो ॥ १४ ॥
प्राणिधान्यधनादीनां वर्ज्यानामप्रतिग्रहात् ।
भैक्षाङ्गानां निसृष्टानां नियतानां प्रतिग्रहात् ॥ १५ ॥
अन्वयः—प्राणिधान्यधनादीनां वर्ज्यानाम् अप्रतिग्रहात् भैक्षाङ्गानां नियतानां
निसृष्टानां प्रतिग्रहात् ॥ १५ ॥
व्याख्या—प्राणिधान्यधनादीनाम् = जीवान्नाद्यर्थादीनाम्, वर्ज्यानाम् = त्याज्यानाम्,
अप्रतिग्रहात्=अस्वीकारात्, भैक्षाङ्गानाम् = भिक्षावृत्तीनाम्, नियतानाम् = प्रतिबद्ध-
नाम्, निसृष्टानाम्=नियोगानाम्, प्रतिग्रहात् = अङ्गीकारात् ॥ १५ ॥
हिन्दी—जीवन, अन्न, धन आदि वर्जित वस्तुओं को अस्वीकार करके भिक्षावृत्ति
के निश्चित नियमों का पालन करो ॥ १५ ॥
परितुष्टः शुचिर्मञ्जुश्चोक्षया जीवसम्पदा ।
कुर्या दुःखप्रतीकारं यावदेव विमुक्तये ॥ १६ ॥
अन्वयः—परितुष्टः शुचिः मञ्जुः उक्षया जीवसम्पदा यावदेव विमुक्तये दुःख-
प्रतीकारं कुर्याः ॥ १६ ॥
व्याख्या—परितुष्टः=सन्तुष्टः, शुचिः=पवित्रः, मञ्जुः=मनोहरः, उक्षया=
परिशुद्धया, जीवसम्पदा = जीविकया, यावदेव = यावत्कालपर्यन्त एव, विमुक्तये =
मोक्षाय, दुःखप्रतीकारम् = क्लेशशमनोपायम्, कुर्याः = विदध्येः ॥ १६ ॥