सामग्री पर जाएँ
सर्वकोश
सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

पृष्ठ 308, कुल 496 में से

संदर्भ में पढ़ें
पृष्ठ 308

२५४ सौन्दरनन्दं महाकाव्यम्
अन्वयः—सौम्य ! त्वम् अतःप्रभृति श्रद्धेन्द्रियपुरःसरः भूयः अमृतस्य आप्तये वृत्तं
रक्षितुम् अर्हसि ॥ १० ॥
व्याख्या—सौम्य ! = हे प्रियदर्शन ! त्वम् = भवान्, अतःप्रभृति = अस्मिन्नेव दिनात्,
श्रद्धेन्द्रियपुरःसरः — श्रद्धैव = आस्थैव, इन्द्रियम् = करणम्, तेन पुरःसरः = सम्पन्नः,
भूयः = भव, अमृतस्य = पीयूषस्य, आप्तये = प्राप्तये, वृत्तम् = आचारम्, रक्षितुम् =
रक्षाकर्तुम्, अर्हसि = योग्योऽसि ॥ १० ॥
हिन्दी—हे प्रियदर्शन ! आज से तुम श्रद्धारूपी साधन से सुसज्जित होकर, अमृत
पाने के लिए अपने शील की रक्षा करो ॥ १० ॥
प्रयोगः कायवचसोः शुद्धो भवति ते यथा ।
उत्तानो विवृतो गुप्तोजनवच्छिद्रस्तथा कुरु ॥ ११ ॥
अन्वयः—तथा कुरु यथा कायवचसोः प्रयोगः शुद्धः उत्तानः विवृतः गुप्तः
अनवच्छिद्रः भवति ॥ ११ ॥
व्याख्या—त्वम्, तथा = तेन प्रकारेणैव, कुरु = विधेहि, यथा = येन प्रकारेण,
कायवचसोः = देहवचनयोः, प्रयोगः = विनियोगः, शुद्धः = पवित्रः, उत्तानः—उद्गत-
स्तानो यस्मात् सः=गाम्भीर्यरहितः, विवृतः = अनावृतः, गुप्तः = सुरक्षितः, अनव-
च्छिद्रः—न विद्यते अवच्छिद्रः यस्मिन् सः = दोषरहितः, भवति = अस्ति ॥ ११ ॥
हिन्दी—तुम ऐसा करो जिससे तुम्हारे शरीर और वचन का कर्म पवित्र होकर
स्पष्ट, प्रत्यक्ष, सुरक्षित और दोष रहित बन जाय ॥ ११ ॥
उत्तानो भावकरणाद्विवृतश्चाप्यगूहनात् ।
गुप्तो रक्षणतात्पर्यादच्छिद्रश्चानवद्यतः ॥ १२ ॥
अन्वयः—भावकरणात् उत्तानः अगूहनात् चापि विवृतः रक्षणतात्पर्यात् गुप्तः
अनवद्यतः च अच्छिद्रः ॥ १२ ॥
व्याख्या—भावकरणात् = विचारव्यञ्जनात्, उत्तानः = ऊर्ध्वतलः, अगूहनात् =
अनावरणात्, चापि विवृतः = अपावृतः, रक्षणतात्पर्यात् = संरक्षणतत्परात्, गुप्तः =
संरक्षितः, अनवद्यतः = अवाच्यतः, च = पुनः, अच्छिद्रः=दोषरहितः प्रयोगो भवति ॥१२॥
हिन्दी—अपने भावों को प्रकट करने से स्पष्ट, कुछ भी नहीं छिपाने से प्रत्यक्ष,
इन्द्रियों के नियन्त्रण में तत्परता दिखलाने से सुरक्षित और दोषरहित होने से प्रयोग
पवित्र बन जाता है ॥ १२ ॥
शरीरवचसोः शुद्धौ सप्ताङ्गे चापि कर्मणि ।
आजीवसमुदाचारं शौचात् संस्कर्तुमर्हसि ॥ १३ ॥
अन्वयः—शरीरवचसोः शुद्धौ सप्ताङ्गे कर्मणि चापि शौचात् आजीवसमुदाचारं
संस्कर्तुम् अर्हसि ॥ १३ ॥
व्याख्या—शरीरवचसोः = देहवाण्योः, शुद्धौ = पवित्रौ, सप्ताङ्गे = सप्तशरीरा-
वयवे, कर्मणि = कृत्ये, चापि शुद्धौ सप्ताङ्गे कर्मणि = त्रीणि शारीरिककर्माणि सन्ति-