सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 307, कुल 496 में से
संदर्भ में पढ़ेंशीलेन्द्रियजयः ] त्रयोदशः सर्गः २५३
श्लेषं त्यागं प्रियं रूक्षं कथां च ध्यानमेव च ।
मन्तुकाले चिकित्साथं चक्रे नात्मानुवृत्तये ॥ ७ ॥
अन्वयः—मन्तुकाले चिकित्साथं न आत्मानुवृत्तये श्लेपं त्यागं प्रियं रूक्षं कथां च
ध्यानम् एव चक्रे ॥ ७ ॥
व्याख्या—मन्तुकाले = प्रबोधनावसरे, चिकित्साथम् = उपचाराय, न = नहि,
आत्मानुवृत्तये = आत्मनः = स्वस्य, अनुवृत्तिः = अनुकूलता, तस्यै = स्वानुकूलतायै,
श्लेषम् = आलिङ्गनम्, त्यागम् = अपासनम्, प्रियम् = कान्तः, रूक्षम् = कठोरम्,
कथाम् = आख्यानम्, च = पुनः, ध्यानमेव च = अवधानमेव च, चक्रे = कृतवान् ॥७॥
हिन्दी—उपदेश काल में उपचार के लिए, न कि अपनी अनुकूलता के लिए,
उन्होंने आलिङ्गन और त्याग, प्यार और कठोरता एवं कथा और ध्यान का सहारा
लिया ॥ ७ ॥
अतश्च सन्दधे कायं महाकरुणया तया ।
मोचयेयं कथं दुःखात् सत्त्वानित्यनुकम्पकः ॥ ८ ॥
अन्वयः—अतश्च सत्त्वानि दुःखात् कथं मोचयेयम् इति अनुकम्पकः तया महा-
करुणया कायं सन्दधे ॥ ८ ॥
व्याख्या—अतश्च = अस्मात्कारणाच्च, सत्त्वानि = प्राणिनः, दुःखात् = क्लेशात्,
कथम् = केन विधिना, मोचयेयम् = परित्यजामि, इति = एवम्, अनुकम्पकः =
अनुकम्पयिता, तया = पूर्वोक्तया, महाकरुणया = अत्यनुकम्पाभावनया, कायम् =
देहम्, सन्दधे = धारणं कृतवान् ॥ ८ ॥
हिन्दी—और फिर, इसलिए 'प्राणियों को दुःख से कैसे छुड़ाऊँ' इस तरह अनु-
कम्पा करते हुए उन्होंने अतिदयालुता के कारण देह धारण किया ॥ ८ ॥
अथ संहर्षणान्नन्दं विदित्वा भाजनीकृतम् ।
अब्रवीद् ब्रुवतां श्रेष्ठः क्रमज्ञः श्रेयसां क्रमम् ॥ ९ ॥
अन्वयः—अथ संहर्षणात् नन्दं भाजनीकृतं विदित्वा ब्रुवतां श्रेष्ठः क्रमज्ञः श्रेयसां
क्रमम् अब्रवीत् ॥ ९ ॥
व्याख्या—अथ = तदनन्तरम्, संहर्षणात् = आश्वासनात्, नन्दम् = स्वानुजम्,
भाजनीकृतम् = पात्रीभूतम्, विदित्वा = परिज्ञाय, ब्रुवताम् = वक्तॄणाम्, श्रेष्ठः = वरः,
क्रमज्ञः = अनुक्रमज्ञाता, श्रेयसाम् = मङ्गलानाम्, क्रमम् = पूर्वापरत्वम्, अब्रवीत् =
अकथयत् ॥ ९ ॥
हिन्दी—तब अपनी प्रेरणा के फलस्वरूप नन्द को सत्पात्र समझकर, पूर्वापर
विचार को जानने वाले, वक्ताश्रेष्ठ ने श्रेय का क्रम बतलाया ॥ ९ ॥
अतःप्रभृति भूयस्त्वं श्रद्धेन्द्रियपुरःसरः ।
अमृतस्याप्तये सौम्य वृत्तं रक्षितुमर्हसि ॥ १० ॥
सौ०-20