सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 269, कुल 496 में से
संदर्भ में पढ़ेंस्वर्ग-दर्शनः ] दशमः सर्गः २१५
अन्वयः—अतःपरं परमम् इति व्यवस्थितः सः परममुनौ परां धृतिं चकार,
ततः मुनिः तं प्रगृह्य अम्बरात् पवन इव पुनः महीतलम् अगमत् ॥ ६४ ॥
व्याख्या—अतःपरम् = तत्पश्चात्, परमम् = उत्तमम्, इति = इत्थम्, व्यवस्थितः
= स्थिरीकृतः, सः = असौ, परममुनौ—परमश्चासौ मुनिः, तस्मिन् = महर्षिश्रेष्ठे,
पराम् = श्रेष्ठांम्, धृतिम् = धैर्यम्, चकार = कृतवान्, ततः = तत्पश्चात्, मुनिः = तथा-
गतः, तम् = नृपनन्दम्, प्रगृह्य = नीत्वा, अम्बरात् = गगनात्, पवनः = वायुः, इव =
यथा, पुनः = भूयः, महीतलम् = पृथिव्याम्, अगमत् = अगच्छत् ॥ ६४ ॥
हिन्दी—इसके बाद 'ठीक है' ऐसा निश्चय कर नन्द ने उस महामुनि पर पूरा
भरोसा किया। इसके बाद मुनि ने उन्हें लेकर हवा की तरह आकाश से धरती पर
उतर आये ॥ ६४ ॥
॥ सौन्दरानन्द महाकाव्य में 'स्वर्ग-दर्शन' नामक दशमसर्ग समाप्त ॥ १० ॥