सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 268, कुल 496 में से
संदर्भ में पढ़ें२१४ सौन्दरनन्दं महाकाव्यम्
फलम् = परिणामः, न = नहि, अन्येन = अपरेण, दत्तम् = समर्पितम्, न चापि,
अहेतुतः = कारणरहितः प्राप्यते ॥ ६१ ॥
हिन्दी—यहाँ स्वर्ग में देवताओं के साथ निवास, सुन्दर उपवन, वृद्धावस्था रहित
प्रमदाएँ—ये सब अपने ही किये शुभकर्म के फल हैं। इन्हें न तो कोई दूसरा देखत है
और न अकारण ही मिलते हैं ॥ ६१ ॥
क्षितौ मनुष्यो धनुरादिभिः श्रमैः स्त्रियः कदाचिद्धि लभेत वा न वा ।
असंशयं यत्त्विह धर्मचर्यया भवेयुरेता दिवि पुण्यकर्मणः ॥६२॥
अन्वयः—मनुष्यः क्षितौ धनुरादिभिः श्रमैः कदाचित् स्त्रियः लभेत वा न वा तु
असंशयं यत् इह धर्मचर्यया-पुण्यकर्मणः दिवि एताः भवेयुः ॥ ६२ ॥
व्याख्या—मनुष्यः = लोकः, क्षितौ = धरण्याम्, धनुरादिभिः = आयुधैः, श्रमैः =
आयासैः, कदाचित् = कथञ्चित्, स्त्रियः = नार्यः, लभेत = आप्नुयात्, वा न वा = किं वा
न प्राप्नुयात्, तु = परञ्च, असंशयम् = असन्दिग्धम्, यत्, इह = संसारे, धर्मचर्यया =
धर्मानुष्ठानेन, पुण्यकर्मणः = धार्मिकः, दिवि = देवलोके, एताः = इमाः, भवेयुः =
स्युरिति ॥ ६२ ॥
हिन्दी—धरती पर आदमी हथियारों के बल पर सायास कदाचित् औरतों को
प्राप्त कर सकता है या नहीं भी प्राप्त कर सकता है, किन्तु इतना तो निश्चित है कि
धरती पर धर्माचरण करनेवालों को स्वर्ग में ये अप्सराएँ अवश्य ही मिलती हैं ॥६२॥
तदप्रमत्तो नियमे समुद्यतो रमस्व यद्यप्सरसोऽभिलिप्ससे ।
अहं च तेऽत्र प्रतिभूः स्थिरे व्रते यथा त्वमाभिनियतं समेष्यसि ॥ ६३ ॥
अन्वयः—यदि अप्सरसः अभिलिप्ससे तत् अप्रमत्तः समुद्यतः नियमे रमस्व, अत्र
च अहं ते प्रतिभूः यथा व्रते स्थिरे त्वम् आभिनियतं समेष्यसि ॥ ६३ ॥
व्याख्या—यदि = चेत्, अप्सरसः = देवाङ्गनाः, अभिलिप्ससे = अभिलषसि, तत्
= तदा, अप्रमत्तः = निरलसः, समुद्यतः = सयत्नः, नियमे = धर्मानुष्ठाने, रमस्व =
विचरणं कुरु, अत्र = अस्मिन् कर्मणि, ते = तव, च = पुनः, अहम् = बुद्धः, प्रतिभूः =
प्रतिज्ञाबद्धः, यथा = येन, व्रते = नियमे, स्थिरे = अवस्थिते सति, त्वम् = ममानुजः,
आभिनियतम् = अभीप्सितम्, समेष्यसि = लप्स्यसे ॥ ६३ ॥
हिन्दी—यदि तुम इन अप्सराओं को पाना चाहते हो, तो आलस्य छोड़कर
प्रयत्नपूर्वक व्रत का पालन करो। इस विषय में मैं तुम्हें विश्वास दिलाता हूँ कि
तुम्हारा व्रत स्थिर होने पर निश्चय ही तुम्हें तुम्हारी अभिलषित वस्तु तुम्हें मिल
जायेगी ॥ ६३ ॥
अतःपरं परममिति व्यवस्थितः परां धृतिं परममुनौ चकार सः ।
ततो मुनिः पवन इवाम्बरात् पतन् प्रगृह्य तं पुनरगमन्महीतलम् ॥ ६४ ॥
सौन्दरानन्दे महाकाव्ये स्वर्गदर्शनो नाम दशमः सर्गः ॥ १० ॥