सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 267, कुल 496 में से
संदर्भ में पढ़ेंस्वर्ग-दर्शनः ] दशमः सर्गः २१३
हिन्दी-तब रात में उठे हुए अन्धकार के विनाशक चन्द्रमा की तरह नन्द के
हृदय में स्थित अज्ञान रूपी अन्धकार को विनष्ट करने की इच्छा वाले, संसार के
अज्ञान-नाशक, अज्ञान-शून्य महर्षि गौतम ने कहा ॥ ५८ ॥
धृतिं परिष्वज्य विधूय विक्रियां निगृह्य तावच्छ्रुतचेतसी शृणु ।
इमा यदि प्रार्थयसे त्वमङ्गना विधत्स्व शुल्कार्थमिहोत्तमं तपः ॥ ५९ ॥
अन्वयः--तावत् धृतिं परिष्वज्य विक्रियां विधूय श्रुतचेतसी निगृह्य शृणु, यदि
त्वम् इमाः अङ्गनाः प्रार्थयसे शुल्कार्थम् इह उत्तमं तपः विधत्स्व ॥ ५९ ॥
व्याख्या-तावदित्यवधारणे, धृतिम् = धैर्यम्, परिष्वज्य = आश्लिष्य, विक्रियाम्
= विकृतिम्, विधूय = परित्यज्य, श्रुतचेतसी = श्रवणमनसी, निगृह्य = नियन्त्रणं
कृत्वा, शृणु = श्रूयताम्, यदि = चेत्, त्वम् = नन्दः, इमाः = पुरोवर्तिन्यः, अङ्गनाः =
स्त्रियः, प्रार्थयसे = अभीप्ससि, शुल्कार्थम् = प्रतिमूल्याय, इह = अत्रैव, उत्तमम् =
= उत्कृष्टम्, तपः = तपस्याम्, विधत्स्व = कुरु ॥ ५९ ॥
हिन्दी-धीरज के साथ मन के विकार को दूर करो, कान खोलकर मन को
नियन्त्रित कर सुनो-यदि तुम इन स्त्रियों की इच्छा करते हो तो इनकी कीमत चुकाने
के लिए यही पर उत्तम तप करो ॥ ५९ ॥
इमा हि शक्या न बलान्न सेवया न सम्प्रदानेन न रूपवत्तया ।
इमा ह्रियन्ते खलु धर्मचर्यया स चेत्प्रहर्षश्चर धर्ममादृतः ॥ ६० ॥
अन्वयः - इमाः हि न बलात् न सेवया न सम्प्रदानेन न रूपवत्तया शक्याः खलु,
इमाः धर्मचर्यया ह्रियन्ते स चेत् प्रहर्षः आदृतः धर्मं चर ॥ ६० ॥
व्याख्या- इमाः = एताः, हीति निश्चयेन, न = नहि, बलात् = बलपूर्वकात्, न
= नहि, सेवया = आश्रयेण, न = नहि, सम्प्रदानेन = वितरणेन, न = नहि रूपवत्तया
= रूपसौन्दर्येण, शक्याः = अवाप्तुं योग्याः, खलु = निश्चयेन, इमाः = स्त्रियः, धर्म-
चर्यया = धर्मकृत्यानुष्ठानेन, ह्रियन्ते = वशीभूयन्ते, स चेत् = एवं चेत्, प्रहर्षः = प्रसन्नः,
आदृतः = समादरेण, धर्मम् = धर्मानुष्ठानम्, चर = कुरु ॥ ६० ॥
हिन्दी - ये अप्सराएँ शक्ति, सौन्दर्य, सेवा या कुछ देकर नहीं पाई जा सकती
हैं। केवल धर्माचरण से ही इन्हें प्राप्त किया जा सकता है। तो फिर, यदि इन्हें
पाने की तुम्हारी इच्छा हो तो प्रसन्नतापूर्वक सादर तप करो ॥ ६० ॥
इहाधिवासो दिवि दैवतैः समं वनानि रम्याण्यजराश्च योषितः ।
इदं फलं स्वस्य शुभस्य कर्मणो न दत्तमन्येन न चाप्यहेतुतः ॥ ६१ ॥
अन्वयः - इह दिवि दैवतैः समम्, अधिवासः रम्याणि वनानि अजराश्च योषितः
स्वस्य शुभस्य कर्मणः फलम्, इदं न अन्येन दत्तं न चापि अहेतुतः ॥ ६१ ॥
व्याख्या- इह = अस्मिन्, दिवि = देवलोके, दैवतैः = सुरैः, समम् = सह, अधि-
वासः = निवासः, रम्याणि = रमणीयानि, वनानि = अरण्यानि, अजराश्च = निर्जराश्च,
योषितः = प्रमदाः, स्वस्य = स्वकीयस्य, शुभस्य = लाभप्रदस्य, कर्मणः = कार्यस्य,