सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 266, कुल 496 में से
संदर्भ में पढ़ें२१२ सौन्दरनन्दं महाकाव्यम्
एतदाख्यस्य, मनः==चेतः, मुमोह=ममत्वं गतः, सः=असौ, श्रीमान्=मान्यः,
शन्तनुः=एतदाख्यनृपः, तनुः=क्षीणः, बभूव=अभवत् । अत्रोपात्तबिम्बाविशिष्ट-
विषयधर्मिकाहार्यारोपनिश्चयविषयीभूतमुपमानाभेदतादात्म्यान्यतरं रूपकमस्ति ।
यमकस्यापिच्छटा दर्शनीयैव ॥ ५६ ॥
हिन्दी—इस काम रूपी सर्प से दंशित कोई अपने विषय में स्थिर नहीं रहा,
स्थिरबोद्ध्यु का मन मोह में पड़ गया और वह बुद्धिमान् शन्तनु शरीर से क्षीण मन
वाला हो गया ॥ ५६ ॥
स्थिते विशिष्टे त्वयि संश्रये श्रये
यथा न यामीह वसन् दिशं दिशम् ।
यथा च लब्ध्वा व्यसनक्षयं क्षयं
व्रजामि तन्मे कुरु शंसतः सतः ॥ ५७ ॥
अन्वयः—विशिष्टे संश्रये त्वयि श्रये स्थिते यथा इह वसन् दिशं दिशं न यामि
यथा च व्यसनक्षयं लब्ध्वा क्षयं व्रजामि शंसतः सतः मे तत् कुरु ॥ ५७ ॥
व्याख्या—विशिष्टे=असामान्ये, संश्रये=शरणे, त्वयि=भवति, श्रये=आश्रये,
स्थिते=विद्यमाने, यथा=येन प्रकारेण, इह=दिव्यलोके, वसन्=निवसन्, दिशं-
दिशं=प्रतिदिशं, न=नहि, यामि=गच्छामि, यथा=येन प्रकारेण, च=पुनः, व्यसन-
क्षयम्—व्यसनस्य=कष्टस्य, क्षयम्=विनाशम्, लब्ध्वा=प्राप्य, क्षयम्=स्थानम्,
व्रजामि=गच्छामि ( 'व्यसनक्षयं लब्ध्वा क्षयं व्रजामि' इत्यस्य पदस्यायमप्यर्थो
भवितुं शक्यते यज्जन्म-मृत्युरूपकष्टस्य क्षयं कृत्वा निर्विपत्तिस्थानमाप्स्यामि, अर्थात्
मोक्षं प्राप्तुं शक्नोमि । ), शंसतः सतः==कथयतः, मे=मम नन्दस्य, तत्कुरु=तथा
विधेहि ॥ ५७ ॥
हिन्दी—आप एक उत्कृष्ट आधार हैं। मैं आपकी शरण में हूँ। कृपया आप ऐसा
करें, जिससे मैं यहाँ रहकर विनष्ट हो जाऊँ, जिससे इस विपत्ति का नाश कर घर
लौट जाऊँ ( या—प्रत्येक जन्म में मैं भटकता न फिरूँ, मुक्ति प्राप्त कर लूँ ) ॥५७॥
ततो जिघांसुहृदि तस्य तत्तमस्तमोनुदो नक्तमिवोत्थितं तमः ।
महर्षिचन्द्रो जगतस्तमोनुदस्तमःप्रहीणो निजगाद गौतमः ॥ ५८ ॥
अन्वयः—ततः नक्तम् उत्थितं तमः तमोनुदः इव हृदि तस्य तत्तमः जिघांसुः
महर्षिचन्द्रः जगतः तमोनुदः तमःप्रहीणः गौतमः निजगाद ॥ ५८ ॥
व्याख्या—ततः=तत्पश्चात्, नक्तम्=निशायाम्, उत्थितम्=समुत्पन्नम्, तमः=
अन्धकारम्, तमोनुदः—तमः नुदतीति तमोनुदः=निशाकरः, इव=यथा, हृदि=
हृदये स्थितम्, तस्य=नृपनन्दस्य, तत्तमः=तदन्धकारम्, जिघांसुः=हन्तुमिच्छुः, महर्षि-
चन्द्रः=मुनिसुधाकरः, जगतः=मर्त्यलोकस्य, तमोनुदः=तिमिर-हन्ता, तमःप्रहीणः—
तमसा=अन्धकारेण, प्रहीणः=हीनः, गौतमः=भगवान् बुद्धः, निजगाद=प्रोवाच ।५८।