सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 208, कुल 496 में से
संदर्भ में पढ़ें१५४ सौन्दरनन्दं महाकाव्यम्
अविचारयतः शुभाशुभं विषयेष्वेव निविष्टचेतसः ।
उपपन्नमलब्धचक्षुषो न रतिः श्रेयसि चेद्भवेत् तव ॥ २३ ॥
अन्वयः-शुभाशुभम् अविचारयतः विषयेषु एव निविष्टचेतसः अलब्धचक्षुषः
तव चेत् श्रेयसि रतिः न उपपन्नम् ॥ २३ ॥
व्याख्या - शुभाशुभम् = कल्याणाकल्याणम्, अविचारयतः = विचारमकुर्वतः,
विषयेषु = उपभोगेषु, एवेति निश्चयेन, निविष्टचेतसः - निविष्टम् = निक्षिप्तम्, चेतः =
मानसम्, यस्य तस्य, अलब्धचक्षुषः - न = नहि, लब्धम् = प्राप्तम्, चक्षुः = नेत्रम्, येन
तस्य, तव = भवतः, चेत् = यदि, श्रेयसि = कल्याणे, रतिः = प्रीतिस्तर्हि
उपपन्नमेवास्ति । कल्याणं द्विविधं भवति- श्रेयः प्रेयश्च । श्रेयसः संश्लेषस्तु
पारमार्थिकतया सह भवति, प्रेयसः सम्बन्धं तु विषयरूपेण भोग्यतया सहैवास्ति ।
विषयासक्तजनस्य श्रेयसः प्राप्तिः कदापि न सम्भवति ॥ २३ ॥
हिन्दी - शुभाशुभ का विचार किये बिना तुम्हारा मन विषयों में आसक्त है।
तुम्हें प्रज्ञारूपी आँखें है ही नहीं, अतः श्रेय के प्रति अरुचि स्वाभाविक ही है ॥ २३ ॥
श्रवणे ग्रहणेऽथ धारणे परमार्थविगमे मनःशमे ।
अविषक्तमतेश्चलात्मनो न हि धर्मेऽभिरतिर्विधीयते ॥ २४ ॥
अन्वयः-श्रवणे हि ग्रहणे अथ धारणे परमार्थविगमे मनःशमे अविषक्तमतेः
चलात्मनः धर्मे अभिरतिः न विधीयते ॥ २४ ॥
व्याख्या-श्रवणे = अध्यात्माकर्णने, हि = यतः, ग्रहणे = ज्ञानाङ्गीकरणम्, अथ =
अपि च, धारणे = निदिध्यासने (विषयासक्तजनस्य अध्यात्मविद्यायाः श्रवणे, ग्रहणे
धारणे च मनो न रमते । श्रवणम्, मननं, निदिध्यासनञ्च सद्धिद्याग्रहणस्यैका प्रक्रिया-
ऽस्ति ।), परमार्थविगमे = अध्यात्मबोधने, (परमार्थस्त्वध्यात्मज्ञान एवेति ।) मनः-
शमे-मनसः = चित्तस्य, शमे = शान्तये, अविषक्तमतेः - न = नहि, विषक्ताः =
आसक्ताः, मतिः = बुद्धिर्यस्य तस्य, चलात्मनः - चलः = चञ्चलः, आत्मा = चेतनः,
यस्य तस्य, धर्मे = धार्मिकानुष्ठाने, अभिरतिः = सर्वतोभावेनाभिरुचिः, न = नहि,
विधीयते = भवति ॥ २४ ॥
हिन्दी - क्योंकि श्रवण, मनन और निदिध्यासन में, अध्यात्म को समझने में
तथा मानसिक शान्ति में अनासक्त बुद्धिवाले तथा चंचल चित्तवाले लोगों का मन इस
धर्मानुष्ठान में रमता ही नहीं है ॥ २४ ॥
विषयेषु तु दोषदर्शिनः परितुष्टस्य शुचेरमानिनः ।
शमकर्मसु युक्तचेतसः कृतबुद्धेर्न रतिर्न विद्यते ॥ २५ ॥
अन्वयः - विषयेषु तु दोषदर्शिनः परितुष्टस्य शुचेः अमानिनः शमकर्मसु युक्त-
चेतसः कृतबुद्धेः रतिः न विद्यते इति न ॥ २५ ॥