सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 207, कुल 496 में से
संदर्भ में पढ़ेंस्त्री-विघ्नः ] अष्टमः सर्गः १५३
अन्वयः—खलु श्येनभयात् प्रियया विनाकृतः काममूर्च्छया अवशः जीवजीवकः
न धृतिं समुपैति न ह्रियं करुणं जीवति ॥ २० ॥
व्याख्या—खलु = निश्चयेन, श्येनभयात्—श्येनस्य = कपोतारेः, भयात् = भीतेः,
प्रियया = कान्तया, विनाकृतः = पृथक्कृतः, काममूर्च्छया—कामस्य = मदनस्य,
मूर्च्छा = पीड़ा, तया, अवशः = विवशः, जीवजीवकः = चक्रवाकः, न = नहि, धृतिम्
= धैर्यम्, समुपैति = प्राप्नोति, न = नहि, ह्रियम् = लज्जाम्, करुणम् = कातरम्,
जीवति = जीवनं धारयति ॥ २० ॥
हिन्दी—बाज पक्षी के डर से चकवी से अलग हुआ चकवा काम-मूर्च्छित होकर
निश्चय ही विवश हो जाता है; उसे न तो धीरज रहता है और न लज्जा ही ॥ २० ॥
अकृतात्मतया तृषान्वितो घृणया चैव धिया च वर्जितः ।
अशनं खलु वान्तमात्मना कृपणः श्वा पुनरत्तुमिच्छति ॥ २१ ॥
अन्वयः—खलु अकृतात्मतया तृषान्वितः घृणया च धिया चैव वर्जितः कृपणः श्वा
आत्मना वान्तम् अशनं पुनः अत्तुम् इच्छति ॥ २१ ॥
व्याख्या—खलु = निश्चयेन, अकृतात्मतया—अकृतः = असंयतः, आत्मा = चेतनम्,
यस्य सः, तस्य भावः तया, तृषान्वितः = तृष्णासमन्वितः, घृणया = जुगुप्सया, च =
पुनः, धिया = बुद्ध्या, चैव, वर्जितः = रहितः, कृपणः = मूर्खः, श्वा = कुक्कुरः,
आत्मना = स्वेन, वान्तम् = उद्गारितम्, अशनम् = भोजनम्, पुनः = भूयः, अत्तुम् =
भोक्तुम्, इच्छति = वाञ्छति ॥ २१ ॥
हिन्दी—असंयत है आत्मा जिसकी, ऐसा घृणित, बुद्धिहीन और कृपण कुत्ता
अपने ही उगले गये निवाले को फिर से खाने की इच्छा करता है ॥ २१ ॥
इति मन्मथशोककर्षितं तमनुध्याय मुहुर्निरोक्ष्य च ।
श्रमणः स हिताभिकाङ्क्षया गुणवद्वाक्यमुवाच विप्रियम् ॥ २२ ॥
अन्वयः—इति मन्मथशोककर्षितं तम् अनुध्याय मुहुः निरीक्ष्य च सः श्रमणः
हिताभिकाङ्क्षया गुणवद् विप्रियं वाक्यम् उवाच ॥ २२ ॥
व्याख्या—इति = इत्थम्, मन्मथशोककर्षितः—मन्मथस्य = मदनस्य, शोकः =
क्लेशः, तेन कर्षितम् = आकृष्टम्, तम् = नन्दम्, अनुध्याय = ध्यात्वा, मुहुः = भूयः,
निरीक्ष्य च = अवलोक्य च, सः = पूर्वोक्तः, श्रवणः = भिक्षुः, हिताभिकाङ्क्षया—
हितस्य = लाभप्रदस्य, अभिकाङ्क्षया = अभिलाषया, गुणवत् = गुणशालि, विप्रियम् =
अप्रियम्, वाक्यम् = वचनम्, उवाच = अकथयत् ॥ २२ ॥
हिन्दी—इस प्रकार कामशोक से विह्वल उस नन्द का ध्यान करके और फिर
उसे देखकर उसके हित की इच्छा से वह भिक्षु गुणयुक्त, किन्तु अप्रिय वचन उससे
कहा ? ॥ २२ ॥