सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 206, कुल 496 में से
संदर्भ में पढ़ें१५२ सौन्दरनन्दं महाकाव्यम्
उद्धृतः=बहिर्निष्कासितः, कलभः=गजशावकः, जलतर्षवशेन—जलस्य = सलिलस्य,
तर्षः=तृष्णा, तर्षवशेन = आकर्षणेन, ताम्=नद्याम्, ग्राहवतीम्—ग्राहाः=नक्राः,
सन्ति=विद्यन्ते, अस्यामिति, सरितम्=नदीम्, पुनः=भूयः, तितीर्षति=प्रवि-
विक्षति ॥ १७ ॥
हिन्दी—निश्चय ही अतिपंकिल एवं विषम नदी-तल से हथिनी के द्वारा निकाला
गया हाथी का बच्चा पानी पीने की इच्छा से पुनः उसी मगर से भरी नदी में घुसना
चाहता है ॥ १७ ॥
शरणे सभुजङ्गमे स्वपन् प्रतिबुद्धेन परेण बोधितः ।
तरुणः खलु जातविभ्रमः स्वयमुग्रं भुजगं जिघृक्षति ॥ १८ ॥
अन्वयः—सभुजङ्गमे शरणे स्वपन् प्रतिबुद्धेन परेण बोधितः तरुणः खलु जात-
विभ्रमः स्वयम् उग्रं भुजगं जिघृक्षति ॥ १८ ॥
व्याख्या—सभुजङ्गमे—भुजङ्गेन=सर्पेण, सहितः=युक्तः, तस्मिन्, शरणे =
सदने, स्वपन्=शयानः, प्रतिबुद्धेन = जाग्रता, परेण=अपरेण, बोधितः=जागरितः,
तरुणः=युवा, खलु=निश्चितेन, जातविभ्रमः—जातः=समुत्पन्नः, विभ्रमः=उद्वेगः,
यस्य सः, स्वयम् = आत्मनैव, उग्रम्=प्रचण्डम्, भुजगम्=सर्पम्, जिघृक्षति =
गृहीतुमिच्छति ॥ १८ ॥
हिन्दी—सांपों से भरे घर में सोया युवक, किसी दूसरे जगे हुए आदमी से
जगाने पर घबड़ा कर खुद ही साँप को पकड़ना चाहता है ॥ १८ ॥
महता खलु जातवेदसा ज्वलितादुत्पतितो वनद्रुमात् ।
पुनरिच्छति नीडतृष्णया पतितुं तत्र गतव्यथो द्विजः ॥ १९ ॥
अन्वयः—महता खलु जातवेदसा ज्वलितात् वनद्रुमात् उत्पतितः द्विजः गतव्यथः
नीडतृष्णया तत्र पतितुं पुनः इच्छति ॥ १९ ॥
व्याख्या—महता = अत्यधिकेन, खलु = निश्चयेन, जातवेदसा = वह्निना,
ज्वलितात् = प्रज्वलितात्, वनद्रुमात्—वनस्य = अरण्यस्य, द्रुमः = वृक्षस्तस्मात्,
उत्पतितः = उद्गतः, द्विजः—द्वाभ्यां जन्म-संस्काराभ्यां जायते इति द्विजः = खगः,
गतव्यथः—गता = निवृत्ता, व्यथा=पीडा, यस्य सः, नीडतृष्णया—नीडस्य =
कोटरस्य, तृष्णा = अभिलाषा, तेन, तत्र = तस्मिन् स्थाने, पतितुम् = गन्तुम्, पुनः =
भूयः, इच्छति = अभिलषति ॥ १९ ॥
हिन्दी—भयंकर आग से जलते जंगल के पेड़ों से उड़े हुए पक्षी पीड़ा रहित
होकर घोंसले की इच्छा से पुनः वहीं जाने की इच्छा करते हैं ॥ १९ ॥
अवशः खलु काममूर्च्छया प्रियया श्येनभयाद्दिनाकृतः ।
न धृतिं समुपैति न ह्रियं करुणं जीवति जीवजीवकः ॥ २० ॥