सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 205, कुल 496 में से
संदर्भ में पढ़ेंस्त्री-विघ्नः ] अष्टमः सर्गः १५१
भिक्षुः, शिरः = मूर्धानम्, प्रकम्पयन् = सञ्चालयन्, आत्मगतम् = स्वगतम्, निजगाद =
उवाच ॥ १४ ॥
हिन्दी—इसके बाद अपनी प्रिय पत्नी के लिए शोक-सन्तप्त बुद्धानुज की बात
सुनकर उस बौद्ध संन्यासी ने धीरे से अपने आपको कहा ॥ १४ ॥
कृपणं बत यूथलालसो महतो व्याधभयाद्विनिःसृतः ।
प्रविविक्षति वागुरां मृगश्चपलो गीतरवेण वञ्चितः ॥ १५ ॥
अन्वयः—बत महतः व्याधभयात् विनिःसृतः यूथलालसः कृपणं चपलः मृगः
गीतरवेण वञ्चितः वागुरां प्रविविक्षति ॥ १५ ॥
व्याख्या—बत = इति खेदे, महतः = उत्कृष्टतमस्य, व्याधभयात्—व्याधस्य =
लुब्धकस्य, भयात् = भीतेः तस्मात्, विनिःसृतः = बहिर्गतः, यूथलालसः = यूथस्य =
सजातीयसमूहस्य, लालसा = उत्कटेच्छा, यस्मिन् सः, कृपणम् = क्षुद्रम्, चपलः =
चञ्चलः, मृगः = सारङ्गः, गीतरवेण = सङ्गीतस्वरेण, वञ्चितः = प्रताडितः, वागुराम्
पाशम्, प्रविविक्षति = प्रवेष्टुमिच्छति ॥ १५ ॥
हिन्दी—चालाक शिकारी के भय से भागा हुआ चपल मृगछौना अपने झुण्ड में
प्रवेश करना चाहता है, किन्तु गीत की मधुर ध्वनि से प्रतारित होकर पुनः जाल में
ही फँसना चाहता है ॥ १५ ॥
विहगः खलु जालसंवृतो हितकामेन जनेन मोक्षितः ।
विचरन् फलपुष्पवद्वनं प्रविविक्षुः स्वयमेव पञ्जरम् ॥ १६ ॥
अन्वयः—खलु जालसंवृतः विहगः हितकामेन जनेन मोक्षितः फलपुष्पवत् वनं
विचरन् स्वयमेव पञ्जरं प्रविविक्षुः ॥ १६ ॥
व्याख्या—खलु = निश्चयेन, जालसंवृतः = जालेन = जालकेन, संवृतः = आवृत्तः,
विहगः = खगः, हितकामेन = हितेच्छुना, जनेन = लोकेन, मोक्षितः = मोक्षणं प्राप्तः,
फलपुष्पवत् = फलकुसुमसमृद्धम्, वनम् = अरण्यम्, विचरन् = परिभ्रमन्, स्वयमेव =
स्वतः एव, पञ्जरम् = पाशम्, प्रविविक्षुः = प्रवेष्टुमिच्छुः ॥ १६ ॥
हिन्दी—निश्चय ही जाल में फँसी चिड़ियाँ किसी हितैषी के द्वारा मुक्त कराये
जाने के बावजूद, फल-फूलों से लदे वन में घूमती हुई स्वतः ही पिंजरे में घुसने की
इच्छा रखती है ॥ १६ ॥
कलभः करिणा खलूद्धृतो बहुपङ्काद्विषमान्नदीतलात् ।
जलतर्षवशेन तां पुनः सरितं ग्राहवतीं तितीर्षति ॥ १७ ॥
अन्वयः—खलु बहुपङ्कात् विषमात् नदीतलात् करिणा उद्धृतः कलभः
जलतर्षवशेन तां ग्राहवतीं सरितं पुनः तितीर्षति ॥ १७ ॥
व्याख्या—खलु = निश्चयेन, बहुपङ्कात् = अतिकर्दमयुक्तात्, विषमात् = नतोन्नतात्,
नदीतलात् = तटिनीतलात्, करिणा—करः = हस्तः, अस्ति अस्येति तेन = गजेन,