सामग्री पर जाएँ
सर्वकोश
सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

पृष्ठ 204, कुल 496 में से

संदर्भ में पढ़ें
पृष्ठ 204

१५० सौन्दरनन्दं महाकाव्यम्
तदिदं शृणु मे समासतो न रेमे धर्मविधावृते प्रियाम् ।
गिरिसानुषु कामिनीमृते कृतरेता इव किन्नरश्चरन् ॥ १२ ॥
अन्वयः—तत् इदं मे समासतः शृणु, प्रियाम् ऋते धर्मविधौ गिरिसानुषु
कामिनीम् ऋते कृतरेता चरन् किन्नर इव न रेमे ॥ १२ ॥
व्याख्या—तत् = तस्मात्, इदम्=एतत्, मे = मम, समासतः = सङ्क्षेपतः, शृणु =
आकर्णय, प्रियाम् = कान्ताम्, ऋते = विना, धर्मविधौ = धर्मानुष्ठाने, गिरिसानुषु =
पर्वतशिखरेषु, कामिनीम् = प्रियाम्, ऋते = अभावे, कृतरेता—कृतम् = विहितम्,
रेतः = वीर्यम्, यस्य सः = कामपीडितः, चरन् = भ्रमन्, किन्नरः = देवयोनिविशेषः,
इव = यथा, न रेमे = सुखं नानुभवामि ॥ १२ ॥
हिन्दी—तो फिर संक्षेप में मेरी कहानी सुनिए—कामिनी के बिना कामपीडित
किन्नरों का मन जिस तरह पहाड़ की चोटियों पर घूमते हुए भी नहीं रमता, उसी
तरह प्रिया के बिना मेरा मन इस धर्मानुष्ठान में नहीं लगता ॥ १२ ॥
वनवाससुखात् पराङ्मुखः प्रधियासा गृहमेव येन मे ।
न हि शर्म लेभे तया विना नृपतिर्हीन इवोत्तमश्रिया ॥ १३ ॥
अन्वयः—वनवाससुखात् पराङ्मुखः येन मे गृहम् एव प्रधियासा, हि तया विना
उत्तमश्रियाहीनः नृपतिः इव शर्म न लेभे ॥ १३ ॥
व्याख्या—वनवाससुखात् = तपोवननिवासजन्यानन्दात्, वने वासः, तस्य सुखम्,
तस्मात् ( अविरक्तजनं वनवासेऽपि शान्ति न मिलती । ), पराङ्मुखः = विमुखः अस्मि,
येन = कारणविशेषेण, मे = मम, गृहम् = सदनम्, एवेति निश्चयेन, प्रधियासा =
प्रयातुमिच्छा, जिगमिषा अस्ति, हि = यतः, तया = प्रियया, विना = ऋते, उत्तम-
श्रियाहीनः—उत्तमा चासौ श्रीः, तया हीनः = श्रेष्ठराजलक्ष्मीविरहितः, नृपतिः =
भूपतिः, शर्म = शमम्, न = नहि, लेभे = प्राप्नोमि ॥ १३ ॥
हिन्दी—मेरी इच्छा घर लौट जाने की है, अतः मैं इस तपोवन के सुख से
विमुख हूँ, क्योंकि इसके बिना उत्तम कोटि की राजलक्ष्मी रहित राजा की तरह मेरे
मन में शान्ति नहीं है ॥ १३ ॥
अथ तस्य निशम्य तद्वचः प्रियभार्याभिमुखस्य शोचतः ।
श्रमणः स शिरः प्रकम्पयन्निजगादात्मगतं शनैरिदम् ॥ १४ ॥
अन्वयः—अथ प्रियभार्याभिमुखस्य शोचतः तस्य तद्वचः निशम्य सः श्रमणः शिरः
प्रकम्पयन् आत्मगतं शनैः इदं निजगाद ॥ १४ ॥
व्याख्या--अथ = अनन्तरम्, प्रियभार्याभिमुखस्य—प्रिया = रुचिकरा, चासौ
भार्या = पत्नी, तां प्रति अभिमुखः = अनुचिन्तकस्तस्य, शोचतः = चिन्तयन्, तस्य =
बुद्धानुजस्य, तद्वचः = पूर्वोक्तवाक्यम्, निशम्य = श्रुत्वा, सः = पूर्वोक्तः, श्रमणः =