सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 168, कुल 496 में से
संदर्भ में पढ़ें११४ सौन्दरनन्दं महाकाव्यम्
कस्मिंश्चिदपि काले, नाभ्यचरत् = नातिक्रामत्, तम् = पतिम्, अन्यथा = इतरथा, यासि
= व्रजसि, तावत् = एवं सत्यपि, अतिकातरा = अतिविह्वला, असि = भवसि ॥२१॥
हिन्दी—तरुण, प्रियदर्शन, भाग्यवान् एवं कुलीन होते हुए भी जिस प्रिय ने कभी
तुम्हारा अतिक्रमण नहीं किया, उनके बारे में तुम कुछ और (अन्यथा) सोच रही
हो; यह तुम्हारी अतिकातरता है ॥ २१ ॥
मा स्वामिनं स्वामिनि दोषतो गाः प्रियं प्रियार्हं प्रियकारिणं तम् ।
न स त्वदन्यां प्रमदामवैति स्वचक्रवाक्या इव चक्रवाकः ॥ २२ ॥
अन्वयः—स्वामिनि प्रियं प्रियार्हं प्रियकारिणं तं स्वामिनं दोषतो मा गाः सः
चक्रवाकः स्वचक्रवाक्याः इव त्वत् अन्यां प्रमदां न अवैति ॥ २२ ॥
व्याख्या—स्वामिनि = भर्तृदारिके, प्रियम् = कान्तम्, प्रियार्हम् = प्रियस्य = पत्युः,
अर्हम् = योग्यम्, प्रियकारिणम् = प्रियम् = हितम्, कर्त्तुम् = विधातुम्, शीलम् = स्वभावम-
स्येति हितकृत्, तम् = पूर्वोक्तम्, स्वामिनम् = भर्त्तारम्, दोषतः = अभियोगतः, मा गाः
= न व्रज, सः = नन्दः, चक्रवाकः = कोकः, स्वचक्रवाक्याः = निजकोक्याः, इव = यथा,
त्वत् = भवत्याः, अन्याम् = काप्यपराम्, प्रमदाम् = नारीम्, न = नहि, अवैति = जानाति ।
स्वचक्रवाक्यातिरिक्तां काप्यन्यां चक्रवाको न जानाति, इति लोकप्रसिद्धिरस्ति ॥ २२ ॥
हिन्दी—हे मालकिन ! सदैव हित करने वाले अपने प्रिय पति को इस तरह दोष
मत दो, जैसे चकवा अपनी चकई के अलावा किसी और को नहीं जानता, उसी तरह
वे तुम्हारे अतिरिक्त और किसी दूसरी नारी को नहीं जानते हैं ॥ २२ ॥
स तु त्वदर्थं गृहवासमीप्सन् जिजीविषुस्त्वत्परितोषहेतोः ।
भ्रात्रा किलार्येण तथागतेन प्रव्राजितो नेत्रजलार्द्रवक्त्रः ॥ २३ ॥
अन्वयः—सः तु त्वदर्थं गृहवासम्, ईप्सन् त्वत् परितोषहेतोः जिजीविषुः किल
भ्रात्रा आर्येण तथागतेन नेत्रजलार्द्रवक्त्रः प्रव्राजितः ॥ २३ ॥
व्याख्या—सः = नन्दः, तु = किन्तु, त्वदर्थम् = तुभ्यम्, गृहवासम् = राजभवने
निवासम्, ईप्सन् = अभिलषन्, त्वत् = तव, परितोषहेतोः = सन्तोषनिमित्तम्,
जिजीविषुः = जीवितुमिच्छुः, किल = निश्चयेन, भ्रात्रा = अग्रजेन, आर्येण = मान्येन,
तथागतेन = बुद्धेन, नेत्रजलार्द्रवक्त्रः—नेत्रजलेन = अश्रुणा, आर्द्रम् = सिञ्चितम्,
वक्त्रम् = मुखम्, यस्य सः, प्रव्राजितः = प्राव्राजयत् ॥ २३ ॥
हिन्दी—वे तो तुम्हारे लिए घर में रहना चाहते हैं, तुम्हारे संतोष के लिए
जीना चाहते हैं, किन्तु बड़े भाई मान्य बुद्ध ने उनके रोते रहने के बावजूद उन्हें
संन्यासी बना दिया ॥ २३ ॥
श्रुत्वा ततो भर्तरि तां प्रवृत्तिं सवेपथुः सा सहसोत्पपात ।
प्रगृह्य बाहू विरराव चोच्चैर्हृदीव दिग्धाभिहता करेणुः ॥ २४ ॥
अन्वयः—ततः भर्त्तरि तां प्रवृत्तिं श्रुत्वा सवेपथुः सा सहसा उत्पपात बाहू प्रगृह्य
च हृदि दिग्धाभिहता करेणुः इव उच्चैः विरराव ॥ २४ ॥