सामग्री पर जाएँ
सर्वकोश
सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

पृष्ठ 167, कुल 496 में से

संदर्भ में पढ़ें
पृष्ठ 167

भार्या-विलापः ] षष्ठः सर्गः ११३
नेच्छन्ति याः शोकमवाप्तुमेवं श्रद्धातुमर्हन्ति न ता नराणाम् ।
क्व चानुवृत्तिर्मयि सास्य पूर्वं त्यागः क्व चायं जनवत्क्षणेन ॥१९॥
अन्वयः—याः एवं शोकम् अवाप्तुं नेच्छन्ति ताः नराणां श्रद्धातुं न अर्हन्ति क्व च
अस्य मयि पूर्वं सा अनुवृत्तिः क्व च जनवत् क्षणेन अयं त्यागः ॥ १९ ॥
व्याख्या—याः = नार्यः, एवम् = इत्थम्, शोकम् = दुःखम्, अवाप्तुम् = प्राप्तुम्,
नेच्छन्ति = नाभिलषन्ति, ताः = स्त्रियः, नराणाम् = पुरुषाणाम्, श्रद्धातुम् = समादरं
कर्तुम्, न = नहि, अर्हन्ति = क्षमन्ते, क्व च = कुतः, अस्य = बुद्धानुजस्य, मयि =
सुन्दर्यां, सा = पूर्वोक्ता, अनुवृत्तिः = सेवामार्गः, उपजीविका वेति, क्व च = कुतश्च,
जनवत् = सामान्यलोक इव, क्षणेन = सहसा, अयम् = एषः, त्यागः = संन्यासः ॥१९॥
हिन्दी—जो स्त्रियां ऐसा दुःख झेलना नहीं चाहतीं, उन्हें पुरुषों का विश्वास
नहीं करना चाहिए। कहाँ तो मेरे प्रति उनका वह प्यार और कहाँ यह जन सामान्य
की तरह यह परित्याग ? ॥ १९ ॥
इत्येवमादि प्रियविप्रयुक्ता प्रियेऽन्यदाशङ्क्य च सा जगाद ।
सम्भ्रान्तमारुह्य च तद्विमानं तां स्त्री सबाष्पा गिरमित्युवाच ॥२०॥
अन्वयः—सा प्रियविप्रयुक्ता प्रिये अन्यद् आशङ्क्य इत्येवम् आदि च जगाद
सबाष्पा सा स्त्री सम्भ्रान्तं तद्विमानम् आरुह्य च इति गिरम् उवाच ॥ २० ॥
व्याख्या—सा = सुन्दरी, प्रियविप्रयुक्ता—प्रियात् = भर्तुः, विप्रयुक्ता = विरहिता,
प्रिये = भर्तरि, अन्यद् = अपरम्, आशङ्क्य = सन्देहं कृत्वा, इत्येवम् = एतत्प्रकारकम्,
आदि च = बहु च, जगाद = उवाच, सबाष्पा—बाष्पेण = अश्रुणा, सहिता = युक्ता,
सा = पूर्वोक्ता, स्त्री = नारी, सम्भ्रान्तम् = अकस्मात्, तद्विमानम् = तत्प्रासादम्,
आरुह्य = आरोहणं कृत्वा, च = पुनः, इति = एवंविधम्, गिरम् = वचनम्, उवाच =
कथयामास ॥ २० ॥
हिन्दी—प्रिय-वियुक्ता वह सुन्दरी अपने पति के सम्बन्ध में ऐसी अनेक आशंकाएँ
कर बहुत कुछ बोली, इसी बीच वह औरत आंसू बहाती महल की सीढी पार कर
बोली ॥ २० ॥
युवापि तावत्प्रियदर्शनोऽपि सौभाग्यभाग्याभिजनान्वितोऽपि ।
यस्त्वां प्रियो नाभ्यचरत् कदाचित् तमन्यथा यास्यतिकातरासि ॥२१॥
अन्वयः—युवाऽपि प्रियदर्शनोऽपि सौभाग्यभाग्याभिजनान्वितोऽपि यः प्रियः कदा-
चित् त्वां नाभ्यचरत् तम् अन्यथा यासि तावत् अतिकातरा असि ॥ २१ ॥
व्याख्या—युवाऽपि = तरुणोऽपि, प्रियदर्शनोऽपि—प्रियम् = कान्तम्, दर्शनम् =
अवलोकनम्, यस्य सः = मनमोहकावलोकनोऽपि, सौभाग्यभाग्याभिजनान्वितोऽपि—
सौभाग्यं भाग्यम् = सुभागधेयम्, अभिजनश्च = वंशश्च, ताभ्यामन्वितः = युक्तः ( भाग्य-
पदस्यात्र काऽपि सार्थकता नास्ति ), यः = पूर्वोक्तः, प्रियः = प्रियपतिः, कदाचित् =