सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 146, कुल 496 में से
संदर्भ में पढ़ें९२ सौन्दरनन्दं महाकाव्यम्
नन्दस्तु तु दुःखेन विचेष्टमानः शनैरगत्या गुरुमन्वगच्छत् ।
भार्यामुखं वीक्षणलोलनेत्रं विचिन्तयन्नार्द्रविशेषकं तत् ॥ १९ ॥
अन्वयः—नन्दस्तु दुःखेन विचेष्टमानः वीक्षणलोलनेत्रम् आर्द्रविशेषकं तत् भार्या-
मुखं विचिन्तयन् अगत्या शनैः गुरुम् अन्वगच्छत् ॥ १९ ॥
व्याख्या—नन्दः=गौतमानुजः, तु=किन्तु, दुःखेन=कष्टेन, विचेष्टमावः =
तीव्रोत्कण्ठायमानः, वीक्षणलोलनेत्रम्—विशेषेण=विलक्षणेन, ईक्षणम्=अवलोकनम्,
तस्मिन् लोले=चञ्चले, नेत्रे=नयने यस्य सः=दर्शनोत्सुकचपलेक्षणः, आर्द्रविशेषकम्
=सिक्ताङ्गरागम्, तत् = पूर्ववर्णितम्, भार्यामुखम्—भार्यायाः = स्त्रियाः, मुखम् =
आननम्, विचिन्तयन् = ध्यायन्, अगत्या = विवशं भूत्वा, शनैः-शनैः = मन्दम्-मन्दम्,
गुरुम् = बुद्धम्, अन्वगच्छत् = अनुससार ॥ १९ ॥
हिन्दी—बेचारा नन्द दुःख से छटपटाता हुआ, गीले अंगराग लपेटे प्रतीक्षारत
चंचल आँखों वाली पत्नी का ध्यान करता हुआ विवश होकर बुद्ध के पीछे-पीछे चलने
लगा ॥ १९ ॥
ततो मुनिस्तं प्रियमाल्यहारं वसन्तमासेन कृताभिहारम् ।
निनाय भग्नप्रमदाविहारं विद्याविहाराभिमतं विहारम् ॥ २० ॥
अन्वयः—ततः मुनिः तं प्रियमाल्यहारं वसन्तमासेन कृताभिहारं भग्नप्रमदा-
विहारम् विद्याविहाराभिमतम् विहारं निनाय ॥ २० ॥
व्याख्या—ततः = तत्पश्चात्, मुनिः = बुद्धः, तम् = नन्दम्, प्रियमाल्यहारम्-
माल्यम् = स्रग्, च हारश्च = कण्ठाभरणञ्च, माल्यहारौ, प्रियौ = रुचिकरौ, माल्यहारौ
यस्य सः, तं प्रियमाल्यहारम् = प्रियस्रग्ग्रैवेयकम्, वसन्तमासेन = वसन्तर्तुना,
कृताभिहारम्—कृतः=सम्पादितः, अभिहारः यस्मिन् सः, तम्=आक्रान्तम्, भग्नप्रमदा-
विहारम्—भग्नः=विनष्टः, प्रमदायाः = सुन्दर्याः, विहारः = सम्भोगः, यस्य तम् =
विनष्टसुन्दरीसुरतम्, विद्याविहाराभिमतम्—विद्यायाः=आध्यात्मिकज्ञानस्य, विहारः=
परिक्रमः, अभिमतः = अभीप्सितः, यस्य तम् = विद्याविहाराभीष्टम्, विहारम् =
सङ्घारामम्, निनाय = अनयत् ॥ २० ॥
हिन्दी—तब भगवान् बुद्ध ने नन्द को, जिन्हें माला और कण्ठहार प्रिय थे, जिन
पर वसन्तऋतु ने आक्रमण किया था, जिनका प्रमदा-विहार नष्ट हो गया था, उन्हें
उस विहार में लाया गया जो विद्या में विहार करने वाले को प्रिय थे ॥ २० ॥
दीनं महाकारुणिकस्ततस्तं दृष्ट्वा मुहूर्तं करुणायमानः ।
करेण चक्राङ्कतलेन मूर्ध्नि पस्पर्श चैवेदमुवाच चैनम् ॥ २१ ॥
अन्वयः—ततः महाकारुणिकः तं मुहूर्तं दीनं दृष्ट्वा करुणायमानः च
चक्राङ्कतलेन करेण मूर्ध्नि पस्पर्श एनम् इदं च उवाच ॥ २१ ॥
व्याख्या—ततः = तदनन्तरम्, महाकारुणिकः = अतिशयकृपालुः, तम् = नन्दम्,
मुहूर्तम् = क्षणम्, दीनम् = आर्तम्, दृष्ट्वा = अवलोक्य, करुणायमानः = करुणायुक्तः