सामग्री पर जाएँ
सर्वकोश
सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

पृष्ठ 144, कुल 496 में से

संदर्भ में पढ़ें
पृष्ठ 144

९० सौन्दरनन्दं महाकाव्यम्
हिन्दी — भगवान् बुद्ध को अन्यमनस्क, विमुख एवं उदास जानकर हाथ में भिक्षा-
पात्र रहने के बावजूद घर जाने की इच्छा से नन्द बुद्ध को देखते हुए उनकी राह से
हट गये ॥ १३ ॥
भार्यानुरागेण यदा गृहं स पात्रं गृहीत्वापि यियासुरेव ।
विमोहयामास मुनिस्ततस्तं रथ्यामुखस्यावरणेन तस्य ॥ १४ ॥
अन्वयः—यदा सः पात्रं गृहीत्वाऽपि भार्यानुरागेण गृहं यियासुः एव ततः मुनिः
तस्य रथ्याभिमुखस्य आवरणेन तं विमोहयामास ॥ १४ ॥
व्याख्या—यदा = यस्मिन् काले, सः = राजा, पात्रम् = भिक्षाभाजनम्, गृहीत्वा-
ऽपि = धृत्वाऽपि, भार्यानुरागेण = प्रियाप्रेम्णा, गृहम् = राजभवनम्, यियासुः = जिग-
मिषुः, एवेति निर्धारणे, ततः = तदा, मुनिः = बुद्धः, तस्य = नन्दस्य, रथ्याभिमुखस्य =
राजपथाभिमुखस्य, आवरणेन = अवरोधेन, तम् = नन्दम्, विमोहयामास = मोहग्रस्तं
चकार ॥ १४ ॥
हिन्दी — जब नन्द भिक्षापात्र हाथ में लेने के बावजूद पत्नी-प्रेम के कारण घर
की ओर लौट जाना चाह रहा था, तब भगवान् बुद्ध ने मार्गावरोध से उसे विमोहित
कर दिया ॥ १४ ॥
निर्मोक्षबीजं हि ददर्श तस्य ज्ञानं मृदुः क्लेशरजश्च तीव्रम् ।
क्लेशानुकूलं विषयात्मकं च नन्दं यतस्तं मुनिराचकर्ष ॥ १५ ॥
अन्वयः—मुनिः तस्य ज्ञानं मृदुः क्लेशानुकूलं विषयात्मकं क्लेशरजः तीव्रं
च हि निर्मोक्षबीजं च ददर्श, यतः तं नन्दम् आचकर्ष ॥ १५ ॥
व्याख्या—मुनिः = सुगतः, तस्य = निजानुजस्य, ज्ञानम् = प्रतीतिः, मृदुः = मन्दम्,
क्लेशानुकूलम् = क्लेशस्य = कष्टस्य, अनुकूलम् = सहायकम्, विषयात्मकम् = मोहा-
सक्तम्, क्लेशरजः = पीडारजः, तीव्रम् = अत्यधिकम्, हि = तथाऽपि, निर्मोक्षबीजम्—
निर्मोक्षस्य = मोक्षस्य, बीजम् = कारणम्, यस्मिन्, च = पुनः, ददर्श = अवलोकया-
मास, यतः = यस्मात्, तम् = पूर्वोक्तम्, नन्दम् = बुद्धानुजम्, आचकर्ष = आकृष्ट-
वान् ॥ १५ ॥
हिन्दी—बुद्ध ने नन्द के ज्ञान को मन्द, क्लेशानुकूल, विषयासक्त तथा दुःखरूपी
रज को अधिक बढ़ाने वाला—फिर भी मोक्ष के बीज को अपने आप में छिपाये देख-
कर उन्हें अपनी ओर आकृष्ट किया ॥ १५ ॥
सङ्क्लेशपक्षो द्विविधश्च दृष्टस्तथा द्विकल्पो व्यवदानपक्षः ।
आत्माश्रयो हेतुबलाधिकस्य बाह्याश्रयः प्रत्ययगौरवस्य ॥ १६ ॥
अन्वयः—सङ्क्लेशपक्षः द्विविधः तथा व्यवदानपक्षः द्विकल्पः दृष्टः हेतुबलाधि-
कस्य आत्माश्रयः प्रत्ययगौरवस्य च बाह्याश्रयः (दृष्टः ) ॥ १६ ॥
व्याख्या—सङ्क्लेशपक्षः = कष्टकरभागः, द्विविधः = द्विधा, तथा व्यवदानपक्षः =
पवित्रतायाः अथवा पराक्रमशीलतायाः स्वरूपम्, द्विकल्पः = द्विप्रकारकः, दृष्टः =