सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 123, कुल 496 में से
संदर्भ में पढ़ेंभार्या-याचितकम् ] चतुर्थः सर्गः ६९
व्याख्या—अत्यन्तमनोहरेण = अत्यधिकसुन्दरेण, च = पुनः, रूपेण = आकृत्या,
रूपानुरूपेण—रूपस्य = सौन्दर्यस्य, अनुरूपम् = उपयुक्तम्, तेन = रूपतुल्येन, च =
पुनः, चेष्टितेन = कायिकव्यापारेण, मनुष्यलोके = संसारे, हि = इति निश्चयेन, तदा =
तस्मिन् काले, स्त्रीपु = नारीषु, सा = पूर्वोक्ता, सुन्दरी = नन्दपत्नी, नरेषु = पुरुषेषु,
च = पुनः, नन्दः = गौतमानुजः, बभूव = अभवत् ॥ ५ ॥
हिन्दी—अपने रूप और तदनुसार आचरण के कारण राजा नन्द और उनकी
पत्नी सुन्दरी संसार के पुरुष और नारियों के बीच अनुपम थे ॥ ५ ॥
सा देवता नन्दनचारिणीव कुलस्य नन्दीजननश्च नन्दः ।
अतीत्य मर्त्याननुपेत्य देवान् सृष्टावभूतामिव भूतधात्रा ॥ ६ ॥
अन्वयः—नन्दनचारिणी देवता इव सा कुलस्य नन्दीजनः च नन्दः भूतधात्रा
मर्त्यान् अतीत्य देवान् उपेत्य इव सृष्टौ अभूताम् ॥ ६ ॥
व्याख्या—नन्दनचारिणी—नन्दने = इन्द्रवने, चरितुम् = विचरितुम्, शीलम् =
चरित्रम्, अस्याः इति नन्दनचारिणी = शक्रोद्यानविहारिणी, देवता इव = देवतुल्या,
सा = सुन्दरी, कुलस्य = वंशोद्भवस्य, च = पुनः, नन्दीजनः—नन्दिनः = आनन्दाः,
जनाः = लोकाः, येन सः = कुलरञ्जकश्च, नन्दः = नृपनन्दः, भूतधात्रा = ब्रह्मणा,
मर्त्यान् = मानवान्, अतीत्य = अतिक्रम्य, देवान् = सुरान्, उपेत्य = अधरीकृत्य, इव
= यथा, सृष्टौ = समस्तसंसारे, अभूताम् = बभूवतुः । सुन्दरीं देवतातुल्यकथनेनाऽत्रो-
पमाऽलङ्कारः । देवमानवयॉर्मध्ये उभयोः संरचनायाः सम्भावना कृताऽस्ति तेनात्रो-
त्प्रेक्षाऽलङ्कारोऽप्यस्ति ॥ ६ ॥
हिन्दी—नन्दनवन-विहारिणी देवी की तरह सुन्दरी को तथा वंशजों को प्रसन्न
करने वाले राजा नन्द की मानो विधि ने मनुष्यों के ऊपर तथा देवताओं के नीचे
रचना की है ॥ ६ ॥
तां सुन्दरीं चेन्न लभेत नन्दः सा वा निषेवेत न तं नतभ्रूः ।
द्वन्द्वं ध्रुवं तद्विकलं न शोभेतान्योन्यहीनाविव रात्रिचन्द्रौ ॥ ७ ॥
अन्वयः—नन्दः तां सुन्दरीं चेत् न लभेत वा सा नतभ्रूः तं न निषेवेत ध्रुवं विकलं
तद् द्वन्द्वम् अन्योन्यहीनौ रात्रिचन्द्रौ इव न शोभेत ॥ ७ ॥
व्याख्या—नन्दः = गौतमानुजः, ताम् = पूर्वोक्ताम्, सुन्दरीम् = स्वभार्याम्, चेत् =
यदि, न = नहि, लभेत = प्राप्नुयात्, वा = अथवा, सा = नन्दपत्नी, नतभ्रूः—नतौ =
आनतौ, भ्रुवौ = भ्रूलते, यस्याः सा, तम्=नन्दम्, न = नहि, निषेवेत = प्राप्तं करोति,
ध्रुवम् = निश्चयेन, विकलम् = अर्धांशहीनत्वेन व्यथितम्, तत् = दम्पती, द्वन्द्वम् =
युगलम्, अन्योन्यहीनौ = परस्परविहीनौ, रात्रिचन्द्रौ—रात्रिश्च = निशा च, चन्द्रश्च =
निशाकरश्च, रात्रिचन्द्रौ = निशानिशाकरौ, इव = यथा, न = नहि, शोभेत = राजते ।
अत्राप्युपमाऽलङ्कारोऽस्ति ॥ ७ ॥