सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 122, कुल 496 में से
संदर्भ में पढ़ें६८ सोन्दरनंदं महाकाव्यम्
लक्ष्म्या च रूपेण च सुन्दरीति स्तम्भेन गर्वेण च मानिनीति ।
दीप्त्या च मानेन च भामिनीति यातो बभाषे त्रिविधेन नाम्ना ॥ ३ ॥
अन्वयः--लक्ष्म्या च रूपेण च सुन्दरी इति स्तम्भेन गर्वेण च मानिनी इति दीप्त्या
च मानेन च भामिनी इति त्रिविधेन नाम्ना वभाषे यातः ॥ ३ ॥
व्याख्या लक्ष्म्या = श्रिया, च = पुनः, रूपेण = आकृत्या, च 'सुन्दरी' इति,
स्तम्भेन = प्रतिबन्धेन, च = पुनः, गर्वेण = मानेन, च 'मानिनी' इति, दीप्त्या = कान्त्या,
च, मानेन = दर्पेण, च = पुनः 'भामिनी' इति, त्रिविधेन = त्रिप्रकारेण, नाम्ना =
आख्यया, वभाषे = कथयामास, यातः ॥ ३ ॥
हिन्दी--कान्ति और रूप के कारण सुन्दरी, गर्व और मान के कारण मानिनी,
कान्ति और दर्प के कारण 'भामिनी' इस प्रकार वह तीन नाम से पुकारी जाती
थी ॥ ३ ॥
सा हासहंसा नयनद्विरेफा पीनस्तनात्युन्नतपद्मकोशा ।
भूयो वभासे स्वकुलोदितेन स्त्रीपद्मिनी नन्ददिवाकरेण ॥ ४ ॥
अन्वयः - हासहंसा नयनद्विरेफा पीनस्तनात्युन्नतपद्मकोशा सा स्त्रीपद्मिनी
स्वकुलोदितेन नन्ददिवाकरेण भूयः वभासे ॥ ४ ॥
व्याख्या-- हासहंसा - हासः = स्मितः, एव हंसा = मराला, यस्याः सा = रूपसी,
नयनद्विरेफा - नयने = लोचने, एव द्विरेफौ = भ्रमरौ यस्याः सा, पीनस्तनात्युन्नतपद्म-
कोशा - पीनौ = स्थूलौ, यौ स्तनौ = कुचौ, तौ एव उन्नतौ = उद्गतौ, पद्मकोशौ -
कमलमुकुले, यस्याः सा = नन्दपत्नी, स्त्रीपद्मिनी = नारीरूपी पद्मिनी, स्वकुलोदितेन =
सूर्यवंशोदितेन, नन्ददिवाकरेण = नन्दरूपरविना, भूयः = अधिकम्, बभासे = शोभया-
मास ।
हासहंसा-नयनद्विरेफा-पीनस्तनात्युन्नतपद्मकोशाः इत्यादि पदेषु रूपकाऽलङ्कारः ।
नन्दपत्न्याः हासे हंस इव धवलता, नयने भ्रमर इव कालिमा तथा चञ्चलता, तथा
तस्याः उन्नत-उरोजे पद्मकोशस्य तुलनाऽऽसीत् । अतएव तस्याः हासे, नयने, स्तने
च हंस-भ्रमर-पद्मकोशादीनामारोपं कृत्वा तां सरोवर इव मन्यते, सहैव सा पद्मिनी-
नायिकाऽस्ति इत्यपि ध्वन्यते ॥ ४ ॥
हिन्दी- मुस्कान रूपी हंस वाली, नयन रूपी भौंरे वाली, स्थूल स्तनरूपी
पद्मकोशंवाली वह स्त्रीरूपी पद्मिनी अपने कुल में उदित सूर्य की तरह नन्द को
पाकर अत्यन्त भासित हुई ॥ ४ ॥
रूपेण चात्यन्तमनोहरेण रूपानुरूपेण च चेष्टितेन ।
मनुष्यलोके हि तदा बभूव सा सुन्दरी स्त्रीषु नरेषु नन्दः ॥ ५ ॥
अन्वयः - अत्यन्तमनोहरेण च रूपेण रूपानुरूपेण च चेष्टितेन मनुष्यलोके हि
तदा स्त्रीषु सा सुन्दरी नरेषु च नन्दः बभूव ॥ ५ ॥