सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 120, कुल 496 में से
संदर्भ में पढ़ें६६ सौन्दरनन्दं महाकाव्यम्
व्याख्या— अत्र = अस्मिन्पुरे, योऽपि = कश्चिदपि, विभवसदृशेषु = ऐश्वर्यतुल्येषु,
विषयेषु = वासनासु, ववृते = निरतोऽभवत्, सोऽपि = असावपि, त्यागविनयनियमा-
भिरतः—त्यागश्च = दानञ्च, विनयश्च = नम्रत्वञ्च, नियमश्च = सदाचारादिनियमश्च,
ते त्यागविनयनियमास्तेषु, अभिरतः = पालयत्तस्तान्, विजहार = व्याहरत्, कदापि
सत्पथात् = सन्मार्गात्, न चचाल = न व्यचलत् ॥ ४० ॥
हिन्दी—इस नगर में ऐश्वर्यशाली व्यक्ति भी विषय-भोग का परित्याग कर
दान, विनय और नियम में आसक्त हुए। ये सन्मार्ग से कभी विचलित नहीं हुए ॥४०॥
अपि च स्वतोऽपि परतोऽपि न भयमभवन्न दैवतः।
तत्र च सुसुखसुभिक्षगुणैर्जहृषुः प्रजाः कृतयुगे मनोरिव ॥ ४१ ॥
अन्वयः—तत्र स्वतोऽपि परतोऽपि दैवतोऽपि च भयं न अभवत् सुसुखसुभिक्षगुणैः
च मनोः कृतयुगे प्रजाः जहृषुः ॥ ४१ ॥
व्याख्या—तत्र = तस्मिन् आश्रमे, स्वतोऽपि = आत्मनोऽपि, परतोऽपि = अन्यतो-
ऽपि, दैवतोऽपि = भाग्यतोऽपि, च = पुनः, भयम् = त्रासम्, न = नहि, अभवत् =
बभूव । सुसुखसुभिक्षगुणैः = सुखसमृद्धिगुणैः, च = पुनः, मनोः = मनुनामकराज्ञः,
कृतयुगे = सत्ययुगे, इव = वत्, प्रजाः = जनाः, जहृषुः = प्रसन्नाः आसन् ॥ ४१ ॥
हिन्दी—उस नगर में न तो अपने-आप से डर था, न दूसरों से और न भाग्य से
ही । कृतयुग में राजा मनु की प्रजा जैसे प्रसन्न थी, उसी तरह सुख, सुभिक्ष और
सद्गुणों के कारण प्रजा खुशहाल थी ॥ ४१ ॥
इति मुदितमनामयं निरापत्कुरुरघुपूरुपुरोपमम्पुरं तत् ।
अभवदभयदैशिके महर्षौ विहरति तत्र शिवाय वीतरागे ॥ ४२ ॥
इति सौन्दरनन्दे महाकाव्ये 'तथागत वर्णनॊ' नाम तृतीयः सर्गः।
अन्वयः—तत्र अभयदैशिकैः वीतरागे महर्षौ शिवाय विहरति तत् पुरं
कुरुरघुपूरुपुरोपमं मुदितं अनामयं निरापत् अभवत् ॥ ४२ ॥
व्याख्या—तत्र = तस्मिन्पुरे, अभयदेशिकैः—अभयस्य = निर्भीकतायाः, दैशिकः =
उपदेष्टा, तस्मिन्निति, वीतरागे—वीतः = विनष्टः, रागः = विषयवासना, यस्य सः
तस्मिन्, महर्षौ = मुनौ, शिवाय = कल्याणाय, विहरति = विचरति, तत् = पूर्वोक्तम्,
पुरम् = नगरम्, कुरुरघुपूरुपुरोपमम् = कुरुरघुपूरूनगरतुल्यम्, मुदितम् = प्रसन्नम्,
अनामयम् = निरामयम्, निरापत् = आपत्तिरहितम्, अभूत् = अभवत् ॥ ४२ ॥
हिन्दी—निडरता का उपदेश देने वाले वीतराग महर्षि लोक-कल्याण के लिए
वहां सदैव विचरण करते रहते थे, फलतः कुरु, रघु और पूरु के नगरों की तरह वह
नगर रोगरहित तथा आपत्ति शून्य सदैव प्रसन्न था ॥ ४२ ॥
सौन्दरनन्द महाकाव्य में 'तथागतवर्णन' नामक तृतीय सर्ग समाप्त ।