सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 118, कुल 496 में से
संदर्भ में पढ़ें६४ सौन्दरनन्दं महाकाव्यम्
अन्वयः-सघृणः परस्य कश्चित् अपघातम् अपि च न व्यचिन्तयत् हि तत्र सः
जनः परस्परं मातृपितृसुतसुहृत्सदृशं ददर्श ॥ ३५ ॥
व्याख्या-सघृणः = घृणया = कृपया, सहितः = सम्मिलितः, कृपालुः, परस्य =
अपरस्य, कश्चित् = कोऽपि, अपघातम् = हानिः, व्यचिन्तयत् = चिन्तयामास, हि =
यतः, तत्र = तस्मिन्नगरे, सः = असौ, जनः = लोकः, परस्परम् = अन्योन्यम्, मातृ-
पितृ-सुत-सुहृत्सदृशम्—माता च = जननी च, पिता च = जनकश्च, सुतश्च = पुत्रश्च,
सुहृच्च = सखा च, तेषां सदृशम् = तुल्यम्, द्वन्द्वगर्भतत्पुरुषसमासोऽत्र, ददर्श = अवलो-
कयामास ॥ ३५ ॥
हिन्दी—वहाँ के लोग दयालु थे, वे एक-दूसरे की हानि कभी सोचते ही नहीं थे,
वे आपस में एक-दूसरे को जननी, जनक, पुत्र और मित्र की तरह देखते थे ॥ ३५ ॥
नियतं भविष्यति परत्र भवदपि च भूतम्प्यथो।
कर्मफलमपि च लोकगतिर्नियतेति दर्शनमवाप साधु च ॥ ३६ ॥
अन्वयः-अथ कर्मफलं भविष्यति परत्र भवद् अपि भूतम् अपि च नियतम्
अपि च लोकगतिः नियता इति साधु दर्शनं च अवाप ॥ ३६ ॥
व्याख्या-अथ = अन्यच्च, कर्मफलम् = कृतकर्मणः परिणामम्, भविष्यति =
आगामिनि, परत्र = अन्यस्मिन् जन्मनि लोके वा, भवदपि = वर्त्तमानमपि, भूतमपि =
जातमपि च, नियतम् = निश्चितम्, भवत्येव नात्र काऽपि विप्रतिपत्तिरिति, अपि च =
अथ च, लोकगतिः = जीवगतिः, कर्मानुसारम्, नियता = निश्चितेति, साधु = सुष्ठु,
दर्शनम् = दार्शनिकज्ञानम्, अवाप = प्राप्तवान्। 'कर्मफलसिद्धान्तो भारतीयदर्शनस्यैको
महत्त्वपूर्णसिद्धान्तोऽस्ति । प्रायः सर्वदर्शनानुसारेण कर्मफलप्राप्तिरावश्यकेति । सकल-
जागतिकप्रक्रिया कर्मफले एवाधारिताऽस्ति, भूतभविष्यवर्त्तमानादिकेषु त्रिषु कालेषु
अस्यावाप्तिरावश्यकेति । कर्मफलमिदम्—सञ्चित, सञ्चीयमाण तथा प्रारब्धरूपेण
त्रिप्रकारकं भवति । कर्मफलानुसारेणैव प्राणिनः तिस्रः गतयो भवन्तिः—स्वर्गलोकस्य
प्राप्तिः, मनुष्ययोनेः प्राप्तिस्तथाऽन्यजीवादियोनेः प्राप्तिः । बौद्धग्रन्थानुलारेण पञ्चप्रकारकः
कर्मगतिर्भवति—नरक-प्रेत-तिर्यक्-मानुष-देवयोनयश्च । यत्र तत्र षष्ठोऽपि आसुरीगति-
र्भवतीत्युल्ले खो मिलति' ॥ ३६ ॥
हिन्दी—भूत, भविष्य और वर्तमान में कर्मफल नियत होता है। कर्मफल के
अनुसार ही जीवों की गति निश्चित होती है, यह सम्यक् दृष्टि उन्हें प्राप्त थी ॥ ३६ ॥
इति कर्मणा दशविधेन परमकुशलेन भूरिणा ।
भ्रंशिनि शिथिलगुणोऽपि युगे विजहार तत्र मुनिसंश्रयाज्जनः ॥३७॥
अन्वयः—भ्रंशिनि युगे शिथिलगुणः अपि जनः तत्र मुनिसंश्रयात् भूरिणा
परमकुशलेन दशविधेन कर्मणा विजहार इति ॥ ३७ ॥
व्याख्या-भ्रंशिनि = अधःपतिते, युगे = कृतादिकाले, शिथिलगुणे—शिथिलाः =
उदासीनाः, गुणाः = धर्माः यस्मात् सः, अपि = अवश्यम्, जनः = जनसामान्यः, तत्र =
तस्मिन् पुरे, मुनिसंश्रयात्—मुनेः = बुद्धस्य, संश्रयः = सम्पर्कः तस्मात्, भूरिणा =