सामग्री पर जाएँ
सर्वकोश
सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

पृष्ठ 117, कुल 496 में से

संदर्भ में पढ़ें
पृष्ठ 117

तथागतवर्णनम् ] तृतीयः सर्गः ६३
व्याख्या --तरुणोऽपि = युवानोऽपि, विभवान्वितोऽपि - विभवेन = धनेन, अन्वितः
= युक्तोऽपि, विषयचपलेन्द्रियोऽपि—विषयेन = वासनया, चपलानि = चञ्चलानि,
इन्द्रियाणि = करणानि, यस्य सोऽपि, च सन्, परयुवतीः—परेषां = अन्येषाम्, युवतीः
= दारान्, नैव, अगमत् = जगाम, हि = यतः, ताः = स्त्रियः, दहनतः = अग्नितः,
अपि, परमम् = अधिकम्, अमन्यत = मेने ॥ ३२ ॥
हिन्दी--जवान, धनी और विषयासक्त होने के बावजूद भी कोई परस्त्रीगमन
नहीं करता था, क्योंकि उन्हें वे आग की तरह दाहक मानते थे ॥ ३२ ॥
अनृतं जगाद न च कश्चिदृतमपि जजल्प नाप्रियम् ।
श्लक्ष्णमपि च न जगावहिलं हितमप्युवाच न च पैशुनाय यत् ॥ ३३ ॥
अन्वयः—कश्चित् अनृतं न जगाद अप्रियम् ऋतम् अपि च न जजल्प अहितं
श्लक्ष्णम् अपि न जगौ पैशुनाय च हितम् अपि न उवाच ॥ ३३ ॥
व्याख्या—कश्चित् = कोऽपि जनः, अनृतम् = मिथ्याभाषणम्, न = नहि, जगाद =
उवाच, अप्रियम् = अरुचिकरम्, ऋतम् = सत्यम्, अपि = अवश्यम्, च = पुनः, न =
नहि, जजल्प = अवदत्, अहितम् = हानिकारकम्, श्लक्ष्णम् = चाटुवचनम्, अपि = च, न
जगौ = न जगाद, पैशुनाय—पिशुनस्य भावः पैशुनम्, तस्मै = परोक्षनिन्दकाय, च =
पुनः, हितम् = लाभकरम्, अपि न = नहि, उवाच = जगाद ॥ ३३ ॥
हिन्दी—कोई मिथ्यावादी नहीं था, अप्रिय सत्य बोलने वाला भी नहीं था, किसी
ने प्रशंसात्मक अहितकारी बातें भी नहीं की, हितकर बातें अवश्य कहीं परन्तु चुगल-
खोरी नहीं की ॥ ३३ ॥
मनसा लुलोभ न च जातु परवसुषु गृद्धमानसः ।
कामसुखमसुखतो विमृशन् विजहार तृप्त इव तत्र सज्जनः ॥ ३४ ॥
अन्वयः -- परवसुषु गृद्धमानसः जातु मनसा , च न लुलोभ सज्जनः कामसुखम्
असुखतः विमृशन् तृप्तः इव तत्र विजहार ॥ ३४ ॥
व्याख्या—परवसुषु—परेषाम् = अन्येषाम्, वसु = धनम्, तेषु अन्यधनेषु, गृद्ध-
मानसः—गृद्धम् = वज्रतुण्ड इव प्रलुब्धः, मनः = चित्तः, यस्याऽसौ, जातु = 'अनेकार्थके-
ऽव्ययपदमिदम्, अत्र कदाचिदर्थे प्रयुक्तोऽयं शब्दः'। मनसा = चेतसा, न = नहि, लुलोभ =
लुलुभे, सज्जनः = सत्पुरुषः, कामसुखम् = वासनाजनितानन्दम्, असुखतः = आनन्द-
रहितम्मत्वा, विमृशन् = चिन्तयन्, तृप्तः = सन्तुष्टः, इव = यथा, विजहार =
व्याहरत् ॥ ३४ ॥
हिन्दी—किसी ने न तो लोभ किया और न कभी कोई दूसरों के धन को देखकर
ललचाया । काम-सुख को दुःख मानकर सज्जन लोगों ने ऐसा आचरण किया जैसे
. कामवासना से उनकी आत्मा सन्तुष्ट हो चुकी हो ॥ ३४ ॥
न परस्य कश्चिदपघातमपि च सघृणो व्यचिन्तयत् ।
मातृपितृसुतसुहृत्सदृशं स ददर्श तत्र हि परस्परं जनः ॥ ३५ ॥