सामग्री पर जाएँ
सर्वकोश
सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

पृष्ठ 116, कुल 496 में से

संदर्भ में पढ़ें
पृष्ठ 116

६२ सौन्दरनन्दं महाकाव्यम्
णात् = मरणं यावत्, नियमविधिम् = नियमव्रतम्, जगृहुः = ग्रहणं कृतवन्तः, युक्तमनसः
—युक्तं मनः येषां ते = समाहितचेतसः, च = पुनः, दधिरे = धृतवन्तः ॥ २९ ॥
हिन्दी—जो लोग अपने मां-बाप और बच्चे-बच्चियों के कारण घर नहीं छोड़े
वे भी नियम और व्रत को आजीवन ग्रहण किये तथा मनोयोगपूर्वक उनका पालन
किये ॥ २९ ॥
न जिहिंस सूक्ष्ममपि जन्तुमपि परवधोपजीविनः ।
किं बत विपुलगुणः कुलजः सदयः सदा किमु मुनेरुपासया ॥ ३० ॥
अन्वयः—परवधोपजीविनः अपि सूक्ष्मम् अपि जन्तुं न जिहिंस, किमु विपुलगुणः
कुलजः सदा मुनेः उपासया सदयः किं बत ॥ ३० ॥
व्याख्या—परवधोपजीविनः—परेषां वधस्तस्मिन्, उपजीविनः = व्याधः, अपि =
चेत्, सूक्ष्मम् = तुच्छम्, जन्तुम् = जीवम्, न = नहि, जिहिंस = जघान, किमु = पुनः,
विपुलगुणः—विपुलाः = महान्तः, गुणाः = स्वभावाः, यस्य सः, कुलजः—कुले = वंशे,
जातः = समुत्पन्नः, कुलजः = वंशोद्भवः, सदा = सर्वदा, मुनेः = ऋषेः, उपासया =
सेवया, सदयः—दयया सहितः सदयः = कृपाशीलः, किं बत = का वार्त्ता ?
इति ॥ ३० ॥
हिन्दी—दूसरे को मारकर जीनेवाले व्याध-बहेलियों ने भी जीव-हिंसा बन्द कर
दी । फिर गुणवान्, कुलीन और मुनि की दया के पात्र महापुरुषों की वार्त्ता ही
क्या ? ॥ ३० ॥
अकृशोद्यमः कृशधनोऽपि परपरिभवासहोऽपि सन् ।
नान्यधनमपजहार तथा भुजगादिवान्यविभवाद्धि विव्यथे ॥ ३१ ॥
अन्वयः—अकृशोद्यमः कृशधनः अपि परपरिभवासहः अपि सन् अन्यधनं न
अपजहार, तथा हि अन्यविभवात् भुजगात् इव विव्यथे ॥ ३१ ॥
व्याख्या—अकृशोद्यमः—अकृशः = अत्यधिकः, उद्यमः = परिश्रमः, यस्यासौ =
बहुश्रमशालीजनः, कृशधनः—कृशम् = क्षीणम्, धनम् = सम्पद, यस्य सः = दरिद्रोऽपि,
परिभवासहः अपि—परैः = अन्यैः, कृतः = विहितः, परिभवः = पराजयस्तस्मिन्,
असहः = असहिष्णुः अपि सन्, अन्यधनम् = परसम्पत्, न = नहि, अपजहार =
अपाहरत्, तथा हि = यतो हि, अन्यविभावात् = परधनात्, भुजगात् = सर्पात्, इव =
यथा, विव्यथे = व्यथितवान् । अस्य श्लोकस्योत्तरार्धे उपमाऽलङ्कारः ॥ ३१ ॥
हिन्दी—महापरिश्रमी व्यक्ति दरिद्र हो जाने पर भी, दूसरों से पराजय को भी
नहीं सहनेवाले व्यक्ति दूसरों के धन को वे कभी नहीं चुराते हैं, क्योंकि दूसरों के धन
से वे उसी तरह डरते हैं जैसे कोई सांप से डरता हो ॥ ३१ ॥
विभवान्वितोऽपि तरुणोऽपि विषयचपलेन्द्रियोऽपि सन् ।
नैव च परयुवतीरगमत् परं हि ता दहनतोऽप्यमन्यत ॥ ३२ ॥
अन्वयः—तरुणोऽपि विभवान्वितोऽपि विषयचपलेन्द्रियोऽपि च सन् परयुवतीः
नैव अगमत्, हि ताः दहनतः अपि परमम् अमन्यत ॥ ३२ ॥