सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 115, कुल 496 में से
संदर्भ में पढ़ेंतथागतवर्णनम् ] तृतीयः सर्गः ६१
हिन्दी—तव ऋद्धियों के प्रदर्शन से राजा को धर्मग्रहण के योग्य तथा प्रजा को
अपनी ओर श्रद्धावनत देखकर बुद्ध ने धर्म और विनय का उन्हें उपदेश दिया ॥ २६ ॥
नृपतिस्ततः प्रथममाप फलममृतधर्मसिद्धये ।
धर्ममतुलमधिगम्य मुनेर्मु नये ननाम स यतो गुराविव ॥ २७ ॥
अन्वयः—ततः नृपतिः अमृतधर्मसिद्धये प्रथमं फलम् आप, यतः मुनेः अतुलं
धर्मम् अधिगम्य सः गुरौ इव मुनये ननाम ॥ २७ ॥
व्याख्या—ततः = तत्पश्चात्, नृपतिः = भूपतिः, अमृतधर्मसिद्धये—अमृतः = श्रेष्ठ-
श्चासौ, धर्मः = आस्तिक्यबुद्धिस्तस्य सिद्धये = प्राप्तये, प्रथमम् = आदिमम्, फलम्,=
परिणामम्, आप = प्राप्तवान्, यतः = यस्माद्धेतोः, मुनेः- बुद्धस्य, अतुलम् = निरुपमम्,
धर्मम् = सदाचारम्, अधिगम्य = लब्ध्वा, सः = नृपः, गुरौ = दीक्षके, इव = यथा,
मुनये = गौतमबुद्धाय, ननाम = नमश्चकार । मुनेरुपमा गुरुणा सहाऽस्ति तेनात्रोप-
मालङ्कारः ॥ २७ ॥
हिन्दी—तव राजा ने श्रेष्ठ धर्म की सिद्धि के लिए प्रथम फल प्राप्त किया । बुद्ध
का अनुपम उपदेश प्राप्तकर गुरु की तरह उन्हें प्रणाम किया ॥ २७ ॥
वहवः प्रसन्नमनसोऽथ जननमरणार्तिभीरवः ।
शाक्यतनयवृषभाः कृतिनो वृषभा इवानलभयात् प्रवव्रजुः ॥ २८ ॥
अन्वयः—अथ जननमरणार्तिभीरवः प्रसन्नमनसः वहवः कृतिनः शाक्यतनयवृषभाः
अनलभयात् वृषभा इव प्रवव्रजुः ॥ २८ ॥
व्याख्या—अथ = ततः, जननम् = जन्म च, मरणम् = मृत्युश्च, तयोः अर्तिः =
= दुःखम्, तस्याः भीरवः = कातराः, प्रसन्नमनसः = हर्षितहृदः, बहवः = नैके, कृतिनः
= कृतानि, सन्ति येषां ते = पुण्यशालिनः, शाक्यतनयवृषभाः—शाक्यस्य = शाक्यनृपतेः,
तनयेषु = पुत्रेषु, वृषभाः = श्रेष्ठाः, अर्थात् श्रेष्ठशाक्यपुत्राः, समासान्ते प्रयुक्तस्य वृषभ-
शब्दस्यार्थो भवति श्रेष्ठः, अनलभयात्—अनलस्य = अग्नेः, भयः = भीतिः, तस्मात्,
वृषभाः = बलीवर्दाः, इव = वत्, प्रवव्रजुः = प्राव्रजन् ॥ २८ ॥
हिन्दी—जन्म और मृत्यु के भय से डरे हुए, अतः प्रसन्नमन बहुत सारे
पुण्यशाली श्रेष्ठ शाक्यपुत्रों ने प्रव्रज्या ली, वे उसी तरह घर से बाहर निकल आये जैसे
आग के डर से साँड़ घर से बाहर आ जाते हैं ॥ २८ ॥
विजहुस्तु येऽपि न गृहाणि तनयपितृमात्रपेक्षया ।
तेऽपि नियमविधिमामरणज्जगृहुश्च युक्तमनसश्च दधिरे ॥ २९ ॥
अन्वयः—ये अपि तनयपितृमात्रपेक्षया गृहाणि न विजहुः तु ते अपि आमरणात्
नियमविधिं जगृहुः युक्तमनसः च दधिरे ॥ २९ ॥
व्याख्या—ये = राजपुत्राः, अपि = चेत्, तनयपितृमात्रपेक्षया—तनयः = पुत्राः,
पिता = जनकः, माता = जननी, चेति तासाम् अपेक्षया = आकाङ्क्षया, गृहाणि = भव-
नानि, न = नहि, विजहुः = तत्यजुः, तु = इति निर्धारणे, तेऽपि = शाक्याः अपि, आमर
सौ०-8