सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 96, कुल 837 में से
संदर्भ में पढ़ेंतृतीयः परिच्छेदः ३७
हृदयकमलस्याकारादिवर्णमयत्वात् तत्कर्णिकाया हकारात्मकत्वं बोध्यम् । तथा च
वक्ष्यति पञ्चमे परिच्छेदे—
अनन्तसरसि क्षार्णे विश्रान्तं यन्महामते ।
अकाराक्षरमूलं तु नित्यं सर्वाश्रयाम्बुजम् ॥
आकाराक्षरनालं तु शेषसर्वार्णपल्लवम् । (५।२-३) इति ।
एतादृशकर्णिकात्मके । अधः पूर्वोक्तगगनात्मकतुर्यपदस्याधः स्थित इत्यर्थः ।
सुषुप्त्याख्यपदे चतुर्धा वासुदेवादिभेदैः प्रभवाख्येन क्रमेण सृष्टिक्रमेणेत्यर्थः ।
वासुदेवाद्यनिरुद्धान्तमिति यावत् । तमजं पूर्वोक्तं परं भगवन्तं ज्ञानविद्याचतुष्केण =
वक्ष्यमाणमन्त्रचतुष्केण यथा यजेत् तद्विधिमवधारय । अत्र परस्यैव भगवतस्तुर्यादि-
स्थानेषु वासुदेवादिभेदैर्बहुत्वाश्रयणात् तमजं यजेदित्यभेदोक्तिः । वक्ष्यति हि—
यथाम्बरस्थः सविता एके एव महामते ।
जलाशयाणि चाश्रित्य बहुत्वं सम्प्रदर्शयेत् ॥
एवमेकोऽपि भगवान् नानामन्त्राश्रयेषु च ।
तुर्यादिपदसंस्थेषु बहुत्वमुपयाति च ॥
(४।३३-३४) इति ॥ २-३ ॥
वेद्यवेदकनिर्मुक्तमच्युतं ब्रह्म यत्परम् ।
अनस्तमितभास्रूपं सर्वाभिन्नमहंपदम् ॥ (लक्ष्मी० २०।४)
इत्युक्तस्य कर्मिणामनवगाह्यतया तेषामुपकाराय भगवान् स्वयमेव पूर्वोक्त-
हृत्कमलकर्णिकामध्ये स्थित्वा शब्दब्रह्मरूपेण वेदकत्वं पररूपेण वेद्यत्वं च
यातीत्याह—वेदकत्वेनेति सार्धेन ॥ ३-४ ॥
श्रीभगवान् ने कहा—हे सङ्कर्षण ! ह वर्ण (हृदयकमल) की कर्णिका में
प्रसुप्ति नामक पद के नीचे जो चतुरात्मा में विभक्त अज है, अब आप उसकी
प्रभव (सृष्टि) क्रम से आराधना सुनिये ॥ २ ॥
जिस प्रकार उस अज की ज्ञान विद्या (वक्ष्यमाण चार मन्त्र) इन चारों से
आराधना की जाती है, उसे सुनिये । वह ब्रह्म स्वयं ही अपने अज्ञानी भक्तों के
उपकार के लिये शब्द ब्रह्मरूप से वेदकत्व तथा कर्णिका मध्य में साम्बवत् पर
रूपेण स्थित होकर वेद्यत्व के रूप में हो जाता है ॥ ३-४ ॥
प्राग्भागादुत्तरं यावद् गुणभेदेन लाङ्गलिन् ।
विभजत्यात्मनात्मानं वासुदेवः परः प्रभुः ॥ ५ ॥
पुनः स एवं तत्र प्रागादिषु चतुर्दिक्षु गुणभेदेन चतुर्धा भवतीत्याह—
प्राग्भागादिति ॥ ५ ॥
अनुज्झितस्वरूपस्तु प्राग्भागे षड्गुणात्मना ।
बलसंवलितेनैव ज्ञानेनास्तेऽथ दक्षिणे ॥ ६ ॥