सामग्री पर जाएँ
सर्वकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 95, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 95

तृतीयः परिच्छेदः
सुषुप्तिव्यूहसमाराधनम्
नारद उवाच
पुनराह जगन्नाथः प्रसङ्गेन मुनीश्वराः ।
परमाराधनं प्राग्वत् परस्य चतुरात्मनः ॥ १ ॥
अथ तृतीयो व्याख्यास्यते ।
त्रिविधं चातुरात्म्यं तु सुषुप्यादिपदत्रिके ।
सुव्यक्तं तत्पदे तुर्ये गुणलक्ष्यं परं स्थितम् ॥ (१०।४२)
इति लक्ष्मीतन्त्रोक्तरीत्या अव्यक्तस्य गुणमात्रलक्ष्यस्य 'अभेदेनात्ममूर्तेर्वै संस्थितं
वटबीजवत्' (५।८१) इति वक्ष्यमाणरीत्या पराभिन्नस्य तुर्यव्यूहस्य 'स्वमूर्तिभिर-
मूर्ताभिरच्युताद्याभिरन्वितः' (२।७२) इति पूर्वमेव तुर्यपदाश्रितेन परेण भगवता सहै-
वोक्तत्वात् तत्प्रसङ्गेन पुनः सुषुप्तिपदाश्रितस्य व्यूहस्यार्चनं भगवान् सङ्कर्षणायो-
पदिशतीत्याह—पुनरिति ॥ १ ॥
नारद जी ने कहा—हे मुनीश्वरो ! पुनः भगवान् जगन्नाथ ने प्रसङ्गवश पूर्ववत्
पर चतुरात्मा का आराधन कहा ॥ १ ॥
विमर्श—इस परिच्छेद में सुषुप्तिपदाश्रित व्यूहात्मक भगवान् के स्वरूप की
विवेचना की गई है तथा उनके समाराधन का प्रकार भी प्रदर्शित किया गया है ।
श्रीभगवानुवाच
हवर्णकर्णिकायां तु सुषुप्याख्यपदे त्वधः ।
चतुर्धा प्रभवाख्येन क्रमेण तमजं यजेत् ॥ २ ॥
ज्ञानविद्याचतुष्केण यथा तदवधारय ।
वेदकत्वेन भगवान् ब्रह्मसंवलिताकृतिः ॥ ३ ॥
स्तम्बवत् कर्णिकामध्ये स्थित्वा वेद्यत्वमेति च ।
स्वयमेवोपकाराय कर्मिणां ब्रह्मयाजिनाम् ॥ ४ ॥
सुषुप्तिव्यूहस्यार्चनक्रमं शृणुष्वेत्याह—हवर्णेति सार्धेन । हवर्णकर्णिकायां