सामग्री पर जाएँ
सर्वकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 91, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 91

३२ सात्वतसंहिता
स्वमूर्तिभिरच्युता(द्या)भिरन्वित इत्यत्राच्युताद्या मूर्तयस्तिस्र इति ज्ञेयम् । तदुक्तं
पारमेश्वरे प्रतिष्ठाध्याये—
तथा च सर्वजगतामेकबीजात्मकस्य च ॥
सदोदितस्वरूपस्य वासुदेवस्य वै विभोः ।
त्रयाणामच्युतादीनां तद्भेदानां तथैव च ॥ (१५।२२-२३) इति
एवं च सङ्कर्षणप्रद्युम्नानिरुद्धानामेवाच्युतसत्यपुरुषापरनामधेयत्वं बोध्यम् ।
ननु—
पुरुषं च ततः सत्यमच्युतं च युधिष्ठिर ॥
अनिरुद्धं च मां प्राहुर्वैखानसविदो जनाः ।
अन्ये त्वेवं विजानन्ति मां राजन् पाञ्चरात्रिकाः ।
वासुदेवं च राजेन्द्र सङ्कर्षणमथापि च ।
प्रद्युम्नं चानिरुद्धं च चतुर्मूर्तिं प्रचक्षते ॥
—(महाभा० आश्व० ९२ अ० । पृ० ६३४२)
इति वासुदेवादीनां पुरुषादिशब्दवाच्यत्वं दृश्यते, भवता व्युत्क्रमेणानिरुद्धादीनां
पुरुषादिशब्दवाच्यत्वं कथं व्याख्यातमिति चेत्, सत्यम् । अत्र वैखानसानां तथा व्यवहार
इत्युक्त्या नास्मद्व्याख्याविरोधः । अपि त्वनिरुद्धादीनां पुरुषादिशब्दवाच्यत्वमत्रैव
वक्ष्यति पञ्चमे परिच्छेदे मन्त्रोद्धारप्रकरणे 'अप्यावावसरे' (५।६८) इत्यादिभिः । एवमत्र
परात्परदशायामच्युतादिसमन्वितत्वेऽपि वासुदेवस्यैव प्राधान्यं बोध्यम्, तत्रैकमूर्ति-
प्राधान्यात् ।
ननु तर्हि शान्तोदितापरनामधेयतुर्यव्यूहचतुर्मूर्तिप्राधान्यं किमिति चेन्न, 'अभेदे-
नादिमूर्तेर्वै संस्थितं वटबीजवत्' (५।८१) इति वक्ष्यमाणानुसारेण परसंज्ञस्य तद्-
व्यूहस्य परात्परवासुदेवाद्यभिन्नत्वात् । अत एव सुषुप्त्यादिव्यूहवत् प्रत्येकं तद्व्यूह-
वाचकमन्त्राणामनुक्तत्वात् परात्परमन्त्रेणैव तस्यापि चारितार्थ्याच्च परात्परत्वद-
शायामिव परत्वेऽपि वासुदेवस्यैकस्यैव प्राधान्यं ज्ञेयम् । तर्हि एवमभिन्नत्वे पुनः केन
तयोर्भेद इति चेत्, नित्योदितत्वेन चेति बोध्यम् । नित्योदितत्वं नाम स्वविभूत्यनुभव-
दशाविशिष्टत्वम् । शान्तोदितत्वं नाम स्वात्ममात्रानुभवदशाविशिष्टत्वम् ।
ननु चैवं शान्तोदितव्यूहेऽप्येकमूर्तिप्राधान्ये व्यूहशब्दस्य स्वारस्यं न संभवतीति
चेदुच्यते—किं व्यूहशब्दमात्रेण चतुर्णां प्राधान्यमङ्गीकार्यम्? तथा सति परात्परत्वदशा-
यामपि व्यूहशब्दो जागर्त्येव । तथाहि ईश्वरे (८।५२) पारमेश्वरे (८।५१) च गरुडा-
र्चनप्रकरणे—'नित्योदितस्य व्यूहस्य तथा शान्तोदितस्य च' इति, सिद्धान्तलक्षण-
निरूपणप्रकरणेऽपि—'यत्र शान्ततरं व्यूहं शान्तोदितमनन्तरम्' (ई० सं०
२०।१९८; पार० सं० १९।५३३) इति । पारमेश्वरे प्रतिष्ठाध्याये—
परात्परस्वरूपस्य परस्य चतुरात्मनः ।
शान्तोदितादिव्यूहानां केशवाद्यखिलस्य च ॥ (१५।२१) इति,
तथा च सर्वजगतामेकबीजात्मकस्य च ॥