सामग्री पर जाएँ
सर्वकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 90, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 90

द्वितीयः परिच्छेदः ३१
नादावसानगगने देवोऽनन्तसमन्वितः ।
शान्तः संवित्स्वरूपस्तु भक्तानुग्रहकाम्यया ॥ ६९ ॥
अनौपम्येन वपुषा ह्यमूर्तो मूर्त्ततां गतः ।
विश्वमाप्याययन् कान्त्या पूर्णेन्दुयुततुल्यया ॥ ७० ॥
वरदाभयदेनैव शङ्खचक्राङ्कितेन तु ।
त्रैलोक्योद्धृतिक्षेण युक्तः पाणिद्वयेन तु ॥ ७१ ॥
रश्मिभिर्भास्करो यद्वत् समुद्र इव चोर्मिभिः ।
स्वमूर्तिभिरमूर्त्तिभिरच्युताद्याभिरन्वितः ॥ ७२ ॥
दीप्तिमद्भिरमूर्तैस्तु सुधाकल्लोलसङ्कुलैः ।
पूर्ण आभरणैः सर्वैर्निर्विकाराङ्घ्रिविग्रहः ॥ ७३ ॥
एवं हृदयकमले शब्दब्रह्मावस्थानमुक्त्वा तदन्ते द्योतमानपरब्रह्मस्वरूपमाह—
नादावसानेति पञ्चभिः । नादावसानगगने नादो नाम नादबिन्दुमध्यमावैखर्याख्ये शब्द-
ब्रह्मणोऽवस्थाचतुष्टये प्रथमावस्था पूर्वोक्तलक्षणा, तदवसानं तत्पराकाष्ठा, तत्र यद्
गगनं गगनात्मिका शक्तिः, तत्रेत्यर्थः । तथा च लक्ष्मीतन्त्रे—
नादस्य या परा काष्ठा साऽहन्ता परमेश्वरी ॥
शक्तिः सा परमा सूक्ष्मा नादान्तगगनाह्वया ।
शब्दब्रह्ममयी सूक्ष्मा साहं सर्वावगाहिनी ॥
विरामे सति नादस्य यः स्फुटीभवति ध्रुवम् ।
ज्योतिस्तत्परमं ब्रह्म लक्ष्मीनारायणात्मकम् ॥ (२४।९-११) इति
शङ्खचक्राङ्कितेनेत्यत्र पाणिद्वये केवलरेखारूपशङ्खचक्राङ्कितत्वं ज्ञेयम् । यतोऽ-
न्यथा पाणिद्वयमात्रस्य वरदाभयमुद्रान्वितत्वमपि न संभवति, तथा चोपबृंहितं लक्ष्मी-
तन्त्रे— व्यापको भगवान् देवो भक्तानुग्रहकाम्यया ॥
अनौपम्यमनिर्देश्यं वपुः स भजते परम् ।
विश्वाप्यायनकं कान्त्या पूर्णेन्दुयुततुल्यया ॥
वरदाभयहस्तं च द्विभुजं पद्मलोचनम् ।
रेखामयेन चक्रेण शङ्खेन च करद्वये ॥
अङ्कितं निर्विकाराङ्घ्रिस्थितं परमशोभनम् ।
अन्यूनानतिरिक्तैः स्वैर्गुणैः षड्भिरलङ्कृतम् ॥
समं समविभक्ताङ्गं सर्वावयवसुन्दरम् ।
पूर्णमाभरणैः शुभ्रैः सुधाकल्लोलसंकुलैः ॥
रश्मिभूतैरमूर्तैः स्वैरच्युताद्यैरविच्युतम् ।
एका मूर्तिरियं दिव्या पराख्या वैष्णवी परा ॥
योगसिद्धा भजन्त्येनां हृदि तुर्यपदाश्रिताम् ।
—(१०।११-१७) इति ।