सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 84, कुल 837 में से
संदर्भ में पढ़ेंद्वितीयः परिच्छेदः २५
एतैः समस्तैर्व्यस्तैर्वा कृतशुद्धिर्यथाबलम् ॥
इत्युक्तरीत्याऽनुष्ठितस्नानः । एतेषामनुष्ठानप्रकारास्तु पारमेश्वरादिषु द्रष्टव्याः ।
यद्यपि जयाख्योक्तं पारमेश्वरे चोपबृंहितमौदकस्नानं ग्राह्यम्, तथापि स्वसूत्रोक्तस्नानाद्य-
नुष्ठानपारम्पर्ये सति तत्परित्यज्यान्यत्र ग्राह्यमिति निर्णीतं पाञ्चरात्ररक्षायाम् । अत्र स्नात
इत्यनेनैव पार्थिवस्नानरूपमूर्ध्वपुण्ड्रधारणमपि संगृहीतम्, सन्ध्यावन्दनादिकमप्युपल-
क्षितम् । शुद्धवासा इत्यनेन—
गन्धैः स्रग्भिरलङ्कारैः सोत्तरीयैश्चभूषितः ।
कर्णभूषणहाराद्यैः कटकैरङ्गुलीयकैः ॥
इत्याद्यर्थः संगृहीतः । क्षिप्तः । जितेन्द्रिय इत्यनेनाभिगमनं सूचितं भवति ।
यतः—
जपध्यानार्चनस्तोत्रैः कर्मवाक्चित्तसंयुतैः ॥
अभिगच्छेज्जगद्योनिं तच्चाभिगमनं स्मृतम् । (ज.सं. २२।६८-६९)
इत्युक्ताभिगमनेन हीन्द्रियजयः सिद्ध्यति । पुष्पदर्भैधैरित्यनेनोपादानमुक्तं
भवति । आदौ द्वाराग्रस्थं सचक्रं पतन्त्रिपं पूजयित्वेत्यनेनानयोः सर्वद्वारपालमुख्यत्वं
सूच्यते । अत एवेश्वरपारमेश्वरयोश्चण्डादिषु जागरुकेष्वपि— 'नियोज्य तत्र रक्षार्थं चक्रं
च पतगेश्वरम्' (ई० सं० ६।११६; पार०सं० ७।५२३) इत्युक्तम् । किञ्च,
यागगेहद्वारार्चनप्रकरणेऽपि चण्डादीनामप्यर्चनाशक्तौ 'सर्वद्वारेषु वा पूज्यः सहेतीशः
पतत्रिपः' (ई० सं० ९।३००; पार० सं० ११।३०३) इत्युक्तम् । अर्चनस्थानं च
तत्रैव व्यक्तमुक्तम्— 'ध्यायेद् द्वाराग्रदेशे तु गरुडं काञ्चनप्रभम्' (ई० सं० ९।२२;
पार० सं० ११।२१) इति प्रक्रम्य,
प्राणाधिदैवतं चक्रे बलिमण्डलमध्यगे ।
संस्थितं संस्मरेत् सर्वैरङ्गैः पुरुषरूपिणम् ॥ इति ।
—(ई० सं० ९।२५-२६; पार० सं० ११।२५)
बलिमण्डलाभावस्थले गोमयादिना सद्यः कल्पितेनाऽर्चनमुक्तं तत्रैव—
स्थिते वा कल्पिते तत्र पूजयेद् बलिमण्डले ।
सर्वं खगेशपूर्वं तु परिवारं हि साच्युतम् ॥ इति (ई.सं.२।९-१०)
अस्मिन्नवसरे गर्भगेहद्वारपालार्चनमपि कार्यम् । तदत्रैव वक्ष्यति नृसिंह-
कल्पपरिच्छेदे—
स्नातो बद्धकचो मौनी शुद्धवासोऽर्घ्यपुष्पधृक् ।
कृत्वा द्वास्थ्यर्चनाद्यं तु उपविश्यासने ततः ॥ (१७।१६) इति ।
इदमेवोपबृंहितमीश्वरेऽपि— 'वास्तूपूरुषमन्यांश्च समभ्यर्च्य यथाक्रमम्' (२।११)
इति । संविशेद भगवद्गृहमित्यत्र ईश्वरे द्वारविभाग उक्तः—
प्रासादान्तःप्रवेशार्थं ततो द्वारं तु चेतसा ।
त्रिभागीकृत्य तन्मध्यभागमेकं द्विधा पुनः ॥
सा० सं० - 6