सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 83, कुल 837 में से
संदर्भ में पढ़ें२४ सात्वतसंहिता
पञ्चाक्षरमन्त्रो वा तदङ्गविचारो वा न दृश्यते । न चैतद् गरुडमन्त्राङ्गविचारदर्शनेऽपि
'नेत्रकर्मणि हृद्बीजं पञ्चाङ्गानां विधीयते' (१९।१७३) इति तत्रोक्तत्वात् पञ्चाङ्गमन्त्र-
सामान्यस्य हृद्बीजयोजनया षडङ्गत्वसिद्धेरस्यापि तथा षडङ्गत्त्वं सिद्धमिति वाच्यम्, यत
एवं हृद्बीजेन सह षडङ्गत्त्वे संभवति सात्वते पञ्चाङ्गानामित्युक्तिरेव न संभवेत् । किञ्च
सात्वतोपबृंहणे ईश्वरे (८।१४) पारमेश्वरे (८।१४) च गरुडमन्त्रस्य षडङ्गत्त्वकथनं
विना पञ्चाङ्गत्वमात्रोक्तिरपि न घटते । अतस्तदर्थमिदं सावधानं शृणु—पञ्चाङ्गानां
मन्त्राणां दीक्षादाविति शेषः । नेत्रकर्मणि नेत्रमन्त्रेण कर्तव्ये कर्मणि,
पाचयेत् मूलमन्त्रेण दृष्ट्वा नेत्रेण संस्कृतम् । (१८।१०२) इति,
वर्मणा तत्फलप्राप्तिं तल्लयत्वमपि स्मरेत् ॥
सुतृप्तिमथ नेत्रेण कुर्यात्तेनैव तत्स्थितिम् । (१९।८८-८९)
इति चैवमादिके हृद्बीजं विधीयते । पञ्चाङ्गानां नेत्रबीजाभावात् तत्स्थाने हृद्-
बीजं योजयेदिति भावः । एवमेव निरङ्गानां मन्त्राणामङ्गमन्त्रसामान्याभावात् तत्साध्येषु
कर्मसु प्रणवो नियोक्तव्य इति च सात्वते उक्तम्—
निरङ्गानां तुमन्त्राणामङ्गमन्त्रोक्तकर्मणाम् ।
प्रणवो विनियोक्तव्यः सह कर्मपदेन तु ॥ इति । (१९।१७३-१७४)
नैतावता पञ्चाङ्गानां षडङ्गत्त्वं निरङ्गानां साङ्गत्त्वं च सिध्यतीति बोध्यम् ॥ ४१-४३ ॥
अपना तेज बाहर प्रगट करने वाले मन्त्रों को तेजोवाचक शब्द के सहित तथा
अपने अन्तरात्मा में तेज को छिपाने वाले मन्त्रों को तेजोवाचक शब्द से रहित होना ही
चाहिये । अतः वहाँ पञ्चाङ्गन्यास ही करे । षडङ्गन्यास (नेत्रन्यास) न करे ॥ ४१-४३ ॥
अथ मन्त्रवरस्यास्य शृणुष्वाराधनं यथा ॥ ४३ ॥
सबाह्याभ्यन्तरावस्थं समासादमलेक्षण ।
एतावदन्तं मन्त्रस्वरूपमुक्त्वा इतः परमर्चनप्रकारं शृणुष्वेत्याह—अथेति । स-
बाह्याभ्यन्तरावस्थं = मानस बाह्योभयाराधनमित्यर्थः ॥ ४४ ॥
अब हे संकर्षण ! इस मन्त्र की आराधना जिस प्रकार से की जाती है आप
उस विधि को सुनिए—हे अमलेक्षण ! वैष्णव साधक बाहरी और भीतरी मलों को
बाहर निकाल कर स्नान करे ॥ ४४ ॥
परिच्युतमलः स्नातः शुद्धवासा जितेन्द्रियः ॥ ४४ ॥
वाग्यतः पुष्पदूर्भाद्यैर्द्वाराग्रस्थं पतत्रिणम् ।
सचक्रं पूजयित्वादौ संविशेद् भगवद्गृहम् ॥ ४५ ॥
आदौ पूजकस्य स्नानादिनियममाह—परिच्युतेति सार्धेन । परिच्युतमलः ब्राह्म-
मुहूर्तसमुत्थानभगवद्ध्याननामसंकीर्तनादिभिः परिहृतान्तरमलः, शौचाचमनदन्तधाव-
नादिभिः परिहृतबाह्यमलश्चेत्यर्थः । स्नातः—
दिव्याप्यमान्त्रवायव्यभौमतैजसमानसैः ।