सामग्री पर जाएँ
सर्वकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 82, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 82

द्वितीयः परिच्छेदः २३
विपर्यये तु नेत्रान्तो मन्त्रो यस्मान्महामते ॥ ४० ॥
दृग्दृष्टिशुद्धमार्गाणां क्व विघ्नाः शान्तचेतसाम् ।
ऐश्वर्यप्रधाने कर्मण्यस्य मन्त्रस्याङ्गन्यासादिष्वस्त्रान्तत्वं मोक्षप्रधाने कर्मणि नेत्रा-
न्तत्वं चाह—प्राधान्येनेति द्वाभ्याम् । तत्र तस्मिन् कर्मणि तद्विघ्नशान्त्यर्थं तस्य कर्मण-
स्तज्जन्यैश्वर्यस्य तदानुषङ्गिकमोक्षस्य च ये विघ्नाः सम्भवन्ति, तत्तच्छान्त्यर्थमित्यर्थः ।
विपर्यये तु मोक्षस्य प्राधान्ये ऐश्वर्यस्यानुषङ्गिकत्वे इत्यर्थः । दृग्दृष्टिशुद्धमार्गाणां दृग्
नेत्रमन्त्रः, तेन दृष्टिः अवलोकनम्, तेन शुद्धः पावनीकृतो मार्गो येषां तेषां
तथोक्तानाम् । नेत्रमन्त्रावलोकनस्य परिशुद्यावहत्वं व्यक्तमुक्तमीश्वरपारमेश्वरयोः—
देवं हृत्कमलाकाशे तेजोरूपतया स्थितम् ।
तस्मात् स्थानात् समानीय तं कुर्यान्नेत्रमध्यगम् ॥
वासुदेवाभिधानं तु प्रागुक्तं च समाश्रयेत् ।
ततो लोचनयुग्मेन स्तब्धेन मुनिपुङ्गवाः ॥
जपन् लोचनमन्त्रं तु पश्येद् यागोपयोगिनम् ।
संभारमखिलं तेन द्रव्यसंघो विशुध्यति ॥ इति ॥ ३९-४१ ॥
—(ई० सं० ३।२-५; पा० सं० ६।८-१०)
जहाँ ऐश्वर्य प्रधान है और मोक्ष आनुषङ्गिक है वहाँ विघ्न शान्ति के लिये
मन्त्रार्थ को मन्त्र समझे अर्थात् वहाँ नेत्र अस्त्रान्त न्यास करे । किन्तु जहाँ मोक्ष
प्रधान है तथा ऐश्वर्य आनुषङ्गिक है, वहाँ नेत्रान्त ही अङ्गन्यास करे, क्योंकि हे
महामते ! वहाँ हर दृष्टि से मार्ग शुद्ध करने वाले शान्तचित्त भगवद् भक्तों के लिये
विघ्न की संभावना ही किस प्रकार संभव है? ॥ ३९-४१ ॥
स्वकमन्तर्गतं तेजः स्वातन्त्र्याच्च बहिष्कृतम् ॥ ४१ ॥
येन येन हि मन्त्रेण स च नेत्रान्वितः स्मृतः ।
स्वप्रकाशस्त्वनुपमो येन येन हृदन्तरे ॥ ४२ ॥
सितासितः समाकृष्यः स स तद्वाचकोत्थितः ।
बहिः प्रकटिततेजसां मन्त्राणां तेजोवाचकशब्दसहितत्वम् अन्तर्निगूढतेजसां तु
तद्वाचकरहितत्वं चाह—स्वकमिति द्वाभ्याम् । एवं च तेजोवाचकरहितानां मन्त्राणां
पञ्चाङ्गत्वमेव बोध्यम् । तदुक्तमीश्वरपारमेश्वरयोर्गरुडार्चनप्रकरणे—
पञ्चाक्षर इति ख्यातो गारुडो मुनिसत्तमाः ।
पञ्चाङ्गानि यथापूर्वमक्षरैः स्युः सबिन्दुकैः ॥ इति ।
—(ई० सं० ८।१४; पा० सं० ८।१४)
पारमेश्वरव्याख्याने त्वेतच्छ्लोकव्याख्यानावसरे—'अत्र पञ्चाङ्गोऽयं मन्त्रः पाद्म-
सात्वतयोः षडङ्गः प्रतिपादितः। षडङ्गानि पुनः स्वयमिति—'नेत्रकर्मणि हृद्बीजं पञ्चा-
ङ्गानां विधीयते' (१९।१७३) इतीत्युक्तम्, तदसङ्गतम् । यतः श्रीसात्वतेऽयं गरुड-