सामग्री पर जाएँ
सर्वकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 680, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 680

पञ्चविंशः परिच्छेदः ६२१
एवं प्रवेश्य तद्बिम्बं साम्प्रतं विनिवेश्य च ॥ ६२ ॥
निषण्णदृढकाष्ठोत्थतोरणेऽस्त्राहुतीस्ततः ।
एवं यागगेहानयनानन्तरं तत्र दृढकाष्ठोत्थतोरणे सन्निवेशमस्त्रमन्त्रेण होमं
चाह—एवमिति । पीठब्रह्मशिलयोः पूर्वमेव तत्रानयनं तदुपरि ब्रह्मस्थापनं कार्य-
मित्युक्तमीश्वरपारमेश्वरयोः—
यागभूमिं ततो बिम्बमवरोप्य रथादिकात् ।
निषण्णदृढकाष्ठोत्थतोरणे सन्निवेश्य च ॥
स्नानभूमौ ततः कुर्यादस्त्रेणाज्यतिलाहुतीः ।
यद्वा पूर्वं समानीय पीठं ब्रह्मशिलान्वितम् ॥
भूमिष्ठे भद्रपीठे तु वेदिकायां निवेश्य च ।
ततो बिम्बं समानीय स्थापयेत् पिण्डिकोपरि ॥ इति ।
—(ई०सं० १८।६८-७१, पार०सं० १५।१८६९-१९१) ॥ ६२-६३॥
इसके पश्चात् बिम्ब का प्रवेश कराकर दृढ़ काष्ठ से बने हुए तोरण पर उसे
स्थापित करे । फिर अस्त्र मन्त्र से आहुति देवे ॥ ६२-६३ ॥
स्नपनार्थ कलशस्थापनविधिकथनम्
निवेश्य स्नानकलशान् हेमाद्युत्थांस्तु निर्व्रणान् ॥ ६३ ॥
पूर्ववद् वदनोपेतान् सुसमांस्त्रासवर्जितान् ।
निरीक्षणादिसंशुद्धान् कृत्वा सहृदयेन तु ॥ ६४ ॥
द्वादशाक्षरमन्त्रेण मन्त्रयेत् तान् सकृत् सकृत् ।
तेनैव पूजयेत् पश्चादर्घ्यस्रक्चन्दनादिना ॥ ६५ ॥
तदाहरणहोमं तु यथाशक्ति समाचरेत् ।
पूर्णान्तमथ सम्पूर्य क्रमाद् द्रव्यैर्नियोजयेत् ॥ ६६ ॥
अथ स्नपनार्थं कलशस्थापनविधिमाह—निवेश्य स्नानकलशानित्यारभ्य वस्त्रे-
णाच्छाद्य वै तत इत्यन्तम् । पूर्वोदितैर्दीक्षाप्रकरणोक्तैरित्यर्थः । अस्य स्नपनस्य पार-
मेश्वरेऽप्युक्तत्वात् तद्व्याख्याने पाद्यार्घ्याचमनीयद्रव्याण्युपरि स्पष्टीकरिष्यतीत्युक्तम् ।
तद्विरुद्धम्, पूर्वोदितैरिति विशेषणस्य वैयर्थ्यात्, तत्रोपरि स्पष्टीकरिष्यमाणपाद्यादि-
द्रव्याणां वैजात्याच्च । चमसी = मलनिरहरणार्थकसुगन्धद्रव्यविशेषः । त्रिफलं
(नेल्लिक्कायि अरलेकायि तारेकायि । वचा बजे) 'वचोग्रन्था' (२।४।१०२)
इत्यमरः। शतावरी = आषाढी । कन्या लोलिसरकन्या, कुमारीति निघण्टुः । व्याघ्री
गुल्ली सिंही आडुसोगे । कृताञ्जलिः सट्टदकरिकै कृताञ्जलिर्नार्गबालेति निघण्टुः ।
गोलोमी पिल्लगरिकै, 'गोलोमी शतवीर्या च' (२।४।१५९) इत्यमरः । "गोलोमी
शतपर्विका" (२।४।१०२) इति गोलोमीशब्दस्य वचापरत्वमप्यस्ति, वचायाः
पूर्वमेवोक्तत्वादत्र श्वेतदूर्वैव प्रकृता । सिंहलोमी नरियाल्दहुल्लु, क्रोष्टुविन्ना सिंहपुच्छी''