सामग्री पर जाएँ
सर्वकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 681, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 681

६२२ सात्वतसंहिता
(२।४।९३) इत्यमरः । कुष्ठं चगलकोष्ठ, "व्याधि कुष्ठं पारिभाव्यम्" (२।४।
१२६) इत्यमरः । भूम्यञ्जनम् । महागंरुडवेगा गरुडनगरिगिड्डा । महानीला करि-
गुरुग, गलूची अमृतवल्ली, गल्लूच्यमृतवल्ली चेति निघण्टुः । सहदेवी प्रसिद्धा ।
विष्णुकान्ता च प्रसिद्धा । शतावरी पूर्वोक्ता । कार्कोटा तोट्टिगिड्डा, हिंस्रा कार्कोटकी
चेति निघण्टुः । सिंहा बिल्वः शैलूषश्रीफलसिंहा इति वैद्यनिघण्टुः । वह्निशिखा
गिणिमृभिनगड्डे, "स्याल्लाङ्गलिक्यग्निशिखा" (२।४।११८) इत्यमरः । यष्टि
अतिमधुरम् । वाराहकर्णी, "अनेलदालु । बला बेण्णेगरुड, "बला वाट्यालकी
घण्टा" (२।४।१०७) इत्यमरः । मोटा अगलशुण्ठी । पद्मकं प्रसिद्धम् । सप्त
ग्राम्यौषधयः शालिमुद्गादयः, सप्तान्यका वेणुश्यामाकादयश्चेश्वरपारमेश्वरयोर्हविः-
पाकप्रकरणोक्ता ग्राह्याः । एवं वामभागे स्थापितचत्वारिंशत्कलशस्नपनस्य स्थूलपर-
संज्ञत्वम्, पृष्ठभागे स्थापितचत्वारिंशत्संख्याककेवलशीतोदककलशस्नपनस्य स्थूल-
सूक्ष्मसंज्ञत्वम्, दक्षिणभागे स्थापितगन्धोदकपूरितचत्वारिंशत्कलशस्य स्थूलस्थूल-
संज्ञत्वं चेश्वरपारमेश्वरयोः प्रतिपादितम् । एवं देवस्य वामभागादिषु स्नपनत्रयकलश-
स्थापनं पृथक् स्नपनमण्डपे सति कार्यम्, तदभावे यागगेहस्थतदर्थपीठ एव पूर्वादि-
पश्चिमान्तं तत्तद्दिने तत्तत्स्नपनकलशस्थापनं कार्यमिति च तत्रैव प्रतिपादितं ज्ञेयम् ।
तत्तत्स्नपनकालश्च तत्रैवोक्तः-
अधिवासदिने कुर्यात् स्नानं स्थूलपराभिधम् ॥
प्रतिष्ठादिवसे कुर्यात् स्नपनं स्थूलसूक्ष्मकम् ।
चतुर्थे दिवसे स्नानं स्थूलस्थूलाभिधं भवेत् ॥ इति ।
-(ई०सं० १८।१६४-१६५, पा०सं० १५।२८८-२८९)
एषां स्नपनानां सति विभवे विस्तारस्तदभावे संकोचश्च तत्रैव स्नपनाध्याये
प्रतिपादितः-
भक्तिश्रद्धावशाच्चापि विभवानुगुणं तु वा ॥
त्रिविधं स्थूलभेदं तु द्विगुणं तु समाचरेत् ।
अनुकल्पे तदर्धं वा पादमष्टांशमेव वा ॥
चतुष्टयं वा कुम्भानां प्रत्येकं वा द्वयं द्वयम् ।
एकैकं वापि विप्रेन्द्राः सर्वद्रव्यमयं घटम् ॥
-(ई०सं० १५।१३८-१४०, पा०सं० १४।१४०-१४२)
इति ॥ ६३-९० ॥
इसके बाद स्वर्णादि विनिर्मित व्रण रहित दीक्षा प्रकरण में कहे गये मुखों से
युक्त सर्वत्र एक समान, फूटने-टूटने के भय से वर्जित, अच्छी तरह देखभाल कर,
शुद्ध किये गये, सौहार्दपूर्वक बनाये गये कलशों को स्थापित करे । फिर एक-एक
कलश को द्वादशाक्षर मन्त्र से अभिमन्त्रित करे । पुनः उसी मन्त्र से अर्घ, माला
एवं चन्दन से उनकी पूजा करे । उसके स्थापित करने के मन्त्र से यथाशक्ति होम
करे । पूर्णाहुती करे । तदनन्तर उसमें तत्तद् द्रव्य स्थापित करे ॥ ६३-६६ ॥