सामग्री पर जाएँ
सर्वकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 65, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 65

६ सात्वतसंहिता
नारायणं शश्वन्मोक्षप्रदेन शाश्वतमोक्षफलकेन रहस्याम्नायविधिना = सात्वतोक्तक्रमेण
आराधयत = पूजयत ॥ १५-१६ ॥
आप लोग आज से सर्वोत्तम भगवान् केशव की आराधना करें क्योंकि सात्त्वत
शास्त्र की विधि से पूजा किये जाने पर उसका फल मोक्ष ही कहा गया है ॥ १५-१६ ॥
ऋषय ऊचुः । नारदं प्रति ऋषीणां प्रार्थना
मुने चिरप्रपन्नानां प्रकृष्टानां भवान् गतिः ॥ १६ ॥
नारायणपदप्राप्तेर्यच्छ्रेयस्तत् प्रकाशय ।
एवमुक्ता ऋषयः प्रार्थयन्ते—मुने इति । प्रकृष्टानां = प्रसिद्धनानाविधतपस्सिद्ध-
फलानाम्, तथापि चिरप्रपन्नानाम् = उपायानुष्ठानपराणाम्, अस्माकमिति शेषः। भवान्
= आचार्यभूतस्त्वं, गतिः = प्राप्यः प्रापकश्च । स्वतः सिद्धफलानां किमुपायान्वेषणेनेति
न चिन्त्यमित्याहुः—नारायणपदप्राप्तेरिति । 'नायमात्मा प्रवचनेन लभ्यो न मेधया न
बहुना श्रुतेन' (कठो० २।२३) इति तपःप्रभृत्यलभ्यस्य 'यमेवैष वृणुते तेन लभ्यः'
(मुण्ड० ३।२।३) इति सिद्धोपायकृपालभ्यस्य मोक्षफलस्य यच्छ्रेयस्साधनभूतं
भगवत्प्रीतिजनकं यत् कर्म तत् प्रकाशय ॥ १६-१७ ॥
ऋषियों ने कहा—हे मुने ! हम लोग प्रसिद्ध नानाविधि तप सिद्धि के लिये
चिरकाल से साध्य अनुष्ठान में प्रयत्नशील हैं । आप हमारे आचार्य हैं और 'आप
ही हमारे प्राप्य और प्रापक भी हैं । अतः नारायण पद प्राप्ति के लिये जो श्रेष्ठ
मार्ग है, उसका आप प्रतिपादन (प्रकाशित) कीजिये ॥ १६ ॥
नारद उवाच
यच्चोदितेन हलिना प्रागुक्तं चक्रपाणिना ॥ १७ ॥
पारम्पर्यगतं तन्मे गदतः शृणुत द्विजाः ।
यदिति । हे द्विजाः, हलिना सङ्कर्षणेन चोदितेन चक्रपाणिना वासुदेवेन प्राक्
त्रेतायुगादौ यदुक्तम् उपदिष्टम्, पारम्पर्यगतं = गुरुपूर्वकमागतं तत् सात्वतं गदतो मे
मत्सकाशात् शृणुत = आकर्णयत ॥ १७-१८ ॥
नारद जी ने कहा—हे ब्राह्मणो ! प्राक् त्रेतायुग में भगवान् सङ्कर्षण द्वारा पूछे
जाने पर भगवान् वासुदेव ने जो उन्हें उपदेश दिया था, उसी को मैं कह रहा हूँ ।
आप लोग गुरु क्रमागत उस सात्त्वत शास्त्र के उपदेश को सुनिये ॥ १७-१८ ॥
पुराऽतीते कृते प्राप्ते त्रेताख्ये ह्यापरे युगे ॥ १८ ॥
ईषदारक्ततां याते जगद्धातरि चाच्युते ।
आह सङ्कर्षणो विष्णुं ज्ञात्वा विनयवानपि ॥ १९ ॥
पुरेति । पुरा पूर्वं कृते अतीते = अतिक्रान्ते सति त्रेताख्ये अपरे युगे = युगभेदे
प्राप्ते सति जगद्धातरि अच्युते च वासुदेवे च ईषदारक्ततां याते