सामग्री पर जाएँ
सर्वकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 64, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 64

[Header] प्रथमः परिच्छेदः ५
श्रुत्वा तत्प्रीतिजनकं वाक्यं प्रणयपेशलम् ॥ १२ ॥
नमस्कृत्य हृषीकेशं मुनिरप्याह नारदः ।
श्रुत्वेति । नारदो मुनिरपि हृषीकेशं नमस्कृत्य प्रणम्य । अत्र प्रणामः
शास्त्रोपदेशारम्भार्थक इति बोध्यम् । प्रणयपेशलं स्वकारुण्यमधुरम्, अत एव
तत्प्रीतिजनकं तेषां मुनीनां सन्तोषजनकम्, वाक्यमाह उवाचेत्यर्थः ॥ १२-१३ ॥
उस आश्रम के दर्शन से प्रहृष्ट देवर्षि नारद का वहाँ रहने वाले उन द्विजेन्द्रों
ने अभिवादन किया और अर्घपाद्यादि उपचारों से उनका पूजन किया । फिर विष्टर
(= आसन) पर बिठाकर हाथ जोड़ कर प्रफुल्लित नयनों से युक्त प्रसन्न मुख हो
इस प्रकार कहने लगे—
हे देवर्षि ! आज आप के दर्शन से हमारा जन्म सफल हो गया । उनकी
प्रीतिजनक एवं प्रणय युक्त मधुर वाणी को सुन कर उन हृषिकेश को नमस्कार
करते हुये नारद मुनि ने कहा ॥ १०-१३ ॥
मन्ये कृतार्थमात्मानं नूनं विप्रवरा ह्यहम् ॥ १३ ॥
भवद्भिः सह सम्बन्धो यस्य मेऽस्मिन् शुभाश्रमे ।
मन्य इति । हे विप्रवराः मुनयः! सोऽहमात्मानं कृतार्थं मन्ये कृतार्थोऽस्मीत्यर्थः।
नूनं ध्रुवम् । हीति प्रसिद्धार्थकः । यस्य मे अस्मिन् शुभाश्रमे भगवदाविर्भावस्थानतया
अनेकभागवताश्रयतया च शुभावहे आश्रमे, भवद्भिः सह सम्बन्धो जात इति शेषः ।
परमभागवतानां भवतां सम्बन्धादहं कृतार्थोऽस्मीति भावः ॥ १३-१४ ॥
हे ब्राह्मणो ! मैं आज अपने को कृतार्थ मान रहा हूँ जो आज इस शुभ
आश्रम में आप लोगों के साथ सम्बन्ध हुआ ॥ १३-१४ ॥
उक्तोऽहं भवतामर्थे रामेणाक्लिष्टकर्मणा ॥ १४ ॥
यत् तदेकमनाः सर्वे आकर्णयत साम्प्रतम् ।
उक्त इति । यद्यस्माद् भवतामर्थे = युष्माकं सात्वतमार्गप्रवर्तनरूपार्थे, अक्लि-
ष्टकर्मणा रामेण अहमुक्तः, नियुक्त इत्यर्थः । तत् तस्मात् साम्प्रतं यूयं सर्वे एकमनाः
सन्तः, अत्र मनश्शब्दस्य दिव्यत्वादकारान्तत्वं ज्ञेयम्, आकर्णयत = शृणुध्वमित्यर्थः,
तद्वाक्यमिति शेषः ॥ १४-१५ ॥
अक्लिष्ट कर्मा भगवान् परशुराम ने आप सभी लोगों को सात्त्वत मार्ग में ले
आने के लिये मुझे आज्ञा दी है । इसलिये आप लोग चित्त को एकाग्र कर मेरी
बात सुनिये ॥ १४-१५ ॥
अद्यप्रभृति देवेशमाराधयत केशवम् ॥ १५ ॥
रहस्याम्नायविधिना शश्वन्मोक्षप्रदेन तु ।
अद्येति । अद्यप्रभृति यूयं देवेशं सर्वदेवोत्तमं केशवं ब्रह्मरुद्रयोरपि स्वामिनं