सामग्री पर जाएँ
सर्वकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 66, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 66

प्रथमः परिच्छेदः ७
'धत्ते सितादिकं रूपं चतुर्धा यत् कृते युगे ।
रक्ताख्यं सितनिष्ठं च त्रेतायां हि महामते ॥' (५।८७-८८)
इति वक्ष्यमाणक्रमेण रक्ताङ्गे सतीत्यर्थः ॥ १८ ॥
आहेति । सङ्कर्षणो ज्ञात्वापि = रक्ताङ्गताहेतुं विदित्वापि, विनयवान् सन् गुरोरु-
पदेशेन ज्ञातव्यमित्याकारकविनययुक्तः सन् विष्णुं वासुदेवं प्रत्याह—किमिति ॥ १९ ॥
पूर्वकाल में जब सत्ययुग समाप्त हो गया था और त्रेतायुग प्राप्त हो गया
था । जिस समय जगद्धाता अच्युत रक्त वर्ण के हो गये थे उस रक्ताङ्गता के हेतु
को जान कर भी विनयी सङ्कर्षण देव ने उन विष्णु से कहा ॥ १८-१९ ॥
किमिदं देव पश्यामि तव रूपविपर्ययम् ।
प्रहस्योवाच भगवान् मेघगम्भीरया गिरा ॥ २० ॥
हे देव ! तव रूपविपर्ययं वर्णभेदं पश्यामि । इदं किं कुतः प्राप्तमित्यर्थः । प्रह-
स्येति । भगवान् वासुदेवः प्रहस्य मेघगम्भीरया गिरा = मेघगर्जितसदृशगाम्भीर्ययुक्तया
गिरा । अत्र उपमानलुप्तलङ्कारः । गिरा वाचा सङ्कर्षणं प्रत्युवाचेत्यर्थः ॥ २० ॥
हे देव ! आप के रूप का यह विपर्यय किस कारण से हो रहा है? तब
भगवान् ने हँसते हुए मेघ के समान गम्भीर वाणी में उनसे कहा ॥ २० ॥
नायं स कालो यत्रासीत् सत्त्वैकबहुलो जनः ।
अद्य रागपरो लोकस्तद्गतं धारयाम्यहम् ॥ २१ ॥
नायमिति । यत्र = यस्मिन् काले, जनः सत्त्वैकबहुलः = शुद्धसात्त्विक
आसीत्, अयं स कालो न, विभिन्न इत्यर्थः । अद्येति । अद्य = अस्मिन् काले,
लोकः = जनः, रागपरः = अनुरागपरः, अनुरागविशिष्टः । तद्वत् = एतत्कालीन-
जनवत्, अहमपि तं रागं धारयामि ॥ २१ ॥
हे सङ्कर्षण ! अब वह काल नहीं रहा, जब सत्त्वबहुल लोग थे, आज का
लोक रागपरक है । इसलिये मै भी राग पर हो कर रक्त वर्ण हो गया हूँ ॥ २१ ॥
सङ्कर्षण उवाच
कालस्वभावजः केन कर्मणा राग ईदृशः ।
नाच्छादयति लोकानां त्वद्भक्तानां विशेषतः ॥ २२ ॥
एवमुक्तः सङ्कर्षणः प्रतिवदति—कालेति । कालस्वभावजः = त्रेतायुगस्वभाव-
जन्यः, ईदृशो रागः केन कर्मणा विशेषतः, त्वद्भक्तानां लोकानामिति कर्मणि षष्ठी,
भक्तजनान् नाच्छादयति न तिरोधत्ते ॥ २२ ॥
सङ्कर्षण ने कहा—त्रेतायुगादि काल तो स्वभावजन्य है । फिर किस कारण
से आपके भक्त लोगों को वह आच्छादित नहीं करता ॥ २२ ॥