सामग्री पर जाएँ
सर्वकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 596, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 596

त्रयोविंशः परिच्छेदः ५३७
सप्ताणं पदमादाय प्राङ्नमः परमात्मने ।
कृष्णाय शब्दं तदनु कमलं त्र्यक्षरं ततः ॥ १०० ॥
दलशब्दं तु विततनेत्राय तदनन्तरम् ।
ब्रह्मिष्ठाय ब्रह्मणे वै अष्टाविंशाक्षरस्ततः ॥ १०१ ॥
३३. ॐ नमः परमात्मने कृष्णाय कमलदलविततनेत्राय ब्रह्मिष्ठाय ब्रह्मणे
नमः ॥ १००-१०१ ॥
भगवन् पदमादाय युगान्तदहनेति च ।
दीप्तयेऽथ पदं दद्यात् संसारपदमेव हि ॥ १०२ ॥
बन्धविच्छेदकर्त्रे वै द्वाविंशार्णस्त्वयं स्मृतः ।
३४. ॐ भगवन् युगान्तदहनदीप्तये संसारबन्धविच्छेदकर्त्रे नमः ॥ १०२ ॥
पदं चतुर्मूर्तये वै चतुर्गतिमयाय च ॥ १०३ ॥
शरशार्ङ्गभृते दद्याच्छरदिन्दीवरत्विषे ।
ततो भगवते दद्यादभिरामपदं ततः ॥ १०४ ॥
शरीराय पदं चैव त्वष्टत्रिंशाक्षरः स्मृतः ।
३५. ॐ चतुर्मूर्तये चतुर्गतिमयाय शरशार्ङ्गभृते शरदिन्दीवरत्विषे भगवतेऽ-
भिरामशरीराय नमः ॥ १०३-१०४ ॥
दद्याद् विशदशब्दं वै परमार्थपदं ततः ॥ १०५ ॥
ततो वेदविदे शब्दं विदुषे व्यापकाय च ।
स्वामिंस्तदनु वै दद्याद् द्व्यक्षरं चापरं पदम् ॥ १०६ ॥
अयं विंशतिभिर्वर्णैरुक्तस्त्वन्यमतः शृणु ।
३६. ॐ विशदपरमार्थवेदविदे विदुषे व्यापकाय स्वामिन् नमः ॥ १०६ ॥
दद्याद् गरुडशब्दं तु तदन्ते वाहनेति च ॥ १०७ ॥
सर्वशस्त्रास्त्रोद्यतेति शमयाऽशुभमेव च ।
ततो धुन धुनादाय कर्मबन्धांस्ततो वदेत् ॥ १०८ ॥
धर्मं पाहि ततो दद्याद् जह्यधर्मं ततो वदेत् ।
चतुस्त्रिंशाक्षरो मन्त्र एष वक्ष्याम्यतः परम् ॥ १०९ ॥
३७. ॐ गरुडवाहन सर्वशस्त्रास्त्रोद्यत शमयाऽशुभं धुन धुन कर्मबन्धान् धर्मं
पाहि जह्यधर्मं नमः ॥ १०७-१०९ ॥
संहारमूर्तये शब्दं कालवैश्वानरार्चिषे ।
सा० सं० - ३८