सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 591, कुल 837 में से
संदर्भ में पढ़ें५३२ सात्वतसंहिता
अब हे सङ्कर्षण! पद मन्त्रों के लक्षण सुनिये । जिसके बिना सत्ता
(अधिकार) प्राप्त होने पर भी अर्चन संभव नहीं होता ॥ ४६-४७ ॥
१. ॐ विश्वातीताय विमलविद्याविधायिने पद्मनाभाय विश्वव्यापिने नमः ॥ ४७-४८ ॥
ज्योतीरूपाय पञ्चार्णं पदं गगनमूर्तये ।
ध्रुवाय दद्यात् तदनु परमं त्र्यक्षरं ततः ॥ ४९ ॥
पदप्राप्तिचतुर्वर्णं हेतवे त्र्यक्षरं त्विति ।
अनन्ताय पदं दद्यात् ततोऽपरिमिताय च ॥ ५० ॥
२. ॐ ज्योतीरूपाय गगनमूर्त्तये ध्रुवाय परमपदप्राप्तिहेतवे नमः ॥ ४९-५० ॥
सर्वाश्रयाय तदनु तदन्ते धृतशक्तये ।
एतद्विंशतिसंख्यं च द्वाविंशार्णमतः शृणु ॥ ५१ ॥
३. ॐ अनन्तायाऽपरिमिताय सर्वाश्रयाय धृतशक्तये नमः ॥ ५१ ॥
नमो भगवते कृत्वा वासुदेवाय वै ततः ।
सर्वशक्त्यात्मनेऽनन्तमूर्तये तु पदं त्विति ॥ ५२ ॥
४. ॐ नमो भगवते वासुदेवाय सर्वशक्त्यात्मनेऽनन्तमूर्तये नमः ॥ ५२ ॥
वीर्यात्मने महाशब्दं पुरुषाय पदं ततः ।
मोहमायापदं चैव ततो विध्वंसिने तु वै ॥ ५३ ॥
सदोदिताय शब्दं तु सर्वशक्तिपदं ततः ।
नियोक्तव्यं चतुर्वर्णं सप्तविंशाक्षरं स्मृतम् ॥ ५४ ॥
५. ॐ वीर्यात्मने महापुरुषाय मोहमायाविध्वंसिने सदोदिताय सर्वशक्तये
नमः ॥ ५३-५४ ॥
पदं वेदविदे विश्वरञ्जकाय ततो भवेत् ।
तदन्ते विश्वपतये ततो वै परमात्मने ॥ ५५ ॥
६. ॐ वेदविदे विश्वरञ्जकाय विश्वपतये परमात्मने नमः ॥ ५५ ॥
एष विंशतिभिर्वर्णैः शृणु सप्तदशाक्षरम् ।
ज्ञानात्मने पदं कुर्यात् संविच्छब्दमतः परम् ॥ ५६ ॥
पदं प्रकाशाशयाय शान्तरूपाय वै ततः ।
अनन्तशक्तये सर्वव्यापिने तदनन्तरम् ॥ ५७ ॥
जगन्मयाय तदनु विश्वरूपाय वै पदम् ।
एकविंशतिभिर्वर्णैरयमुक्तोऽपरं शृणु ॥ ५८ ॥