सामग्री पर जाएँ
सर्वकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 590, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 590

त्रयोविंशः परिच्छेदः ५३१
यैर्विना लब्धसत्तानामर्चनं हि न जायते ।
विश्वातीताय विमलं पदं विद्याविधायिने ॥ ४७ ॥
पद्मनाभाय वै विश्वव्यापिने तदनन्तरम् ।
चतुर्विंशाक्षरं विद्धि एतत्संख्यं परं शृणु ॥ ४८ ॥
अथ पदमन्त्रानाह—लक्षणं पदमन्त्राणामित्यारभ्य भक्त्या सत्कर्मणां भुवीत्य-
न्तम् । तथा चैषां प्रयोगः—
ॐविश्वातीताय विमलविद्याविधायिने पद्मनाभाय विश्वव्यापिने नमः । ॐज्योती-
रूपाय गगनमूर्तये ध्रुवाय परमपदप्राप्तिहेतवे नमः । ॐअनन्तायाऽपरिमित्याय सर्वा-
श्रयाय धृतशक्तये नमः । ॐनमो भगवते वासुदेवाय सर्वशक्त्यात्मनेऽनन्तमूर्तये नमः ।
ॐवीर्यात्मने महापुरुषाय मोहमायाविध्वंसिने सदोदिताय सर्वशक्तये नमः । ॐवेदविदे
विश्वरञ्जकाय विश्वपतये परमात्मने नमः । ॐज्ञानात्मने संवित्प्रकाशाशयाय शान्त-
रूपाय नमः । ॐअनन्तशक्तये सर्वव्यापिने जगन्मयाय विश्वरूपाय नमः । ॐसतसत्त्व-
गुहा(शया)य परहंसाय मानसचारिणे नमः । ॐयज्ञमूर्तये विश्वान्तर्वर्तिने भुवनवराहाय
विभूतिस्वामिने नमः । ॐनमो भगवते वडवाग्नये जगज्जलेन्धनप्रदीप्तवीर्याय फट्
नमः । ॐसर्वान्तश्चारिणे प्रसन्नमूर्तये धर्मात्मने नमः । ॐसर्वविद्येश्वराय वाक्पतये वद
वद वाग्विभवं नमः । ॐयोगैश्वर्यप्रदाय योगनिद्रारसाय नीरदाय भगवज्जलशायिने
नमः । ॐभगवदनन्तबलशक्तये तेजोमयाय भुवनधृते कच्छपात्मने नमः । ॐयज्ञाङ्ग-
देहाय महावराहाय पुराणपुरुषाय प्रजापतये नमः । ॐनमो भगवते नारसिंहाय
तेजोनिधये हन हन विकर्मजात्यं दुष्कृतं नमः । ॐअमृतमूर्ते ज्ञानबलात्मने सर्वेश्वराय
भगवन्नमः । ॐपुण्डरीकाक्ष परमेश्वर सकलसुखसौभाग्यनिधे वाञ्छितसिद्धिप्रदा-
खिलदुःखशमनाग्नये आनन्दसुन्दरलक्ष्मीपतये नमः । ॐसदसन्मूर्तये विश्वोत्तमायामृत-
निधये नमः । ॐपुरुषोत्तमायाप्रतिहतशक्तये सर्वेश्वराय समग्रोग्रभयनिवारणाय नमः ।
ॐनियन्त्रे विश्वहेतवे परब्रह्मसेतवे ॐ नमः । ॐअप्रतिमप्रभावमहाविभूते महामाया-
दर्शकतालकेतवे नमः । ॐशान्तात्मने यमनियमाश्रयाय परमर्धिप्रदाय नारायणाय
नमः । ॐभवभङ्गकारिणे भगवते दत्तात्रेयाय वर्णाश्रमधर्मपरिग्रहाय ॐ नमः ।
ॐसर्वज्ञाय विश्वात्मने विमलसर्वेश्वराय न्यग्रोधशयनाय नमः । ॐभूतभावनाय
विश्वात्मने विमलनिकेतनाय कन्थराय नमः । ॐविष्णवे निरस्तास्त्राय ब्रह्ममयाय जटिने
दण्डिने विदितविभवाय नमः । ॐसर्वव्यापिने सहस्रार्चिषे त्रिविक्रमायाऽपरिमित-
प्रभावाय नमः । ॐनरनाथाय पुरुषप्रवराय आत्मध्यानपरायणाय नमः । ॐनारायणाय
निरतिशयानन्दमयाय निरभिमानपदासक्ताय नमः । ॐपराय परमात्मने योगेश्वराय
हरये नमः । ॐनमः परमात्मने कृष्णाय कमलदलविततनेत्राय ब्रह्मिष्ठाय ब्रह्मणे नमः ।
ॐभगवन् युगान्तदहनदीप्तये संसारबन्धविच्छेदकर्त्रे नमः । ॐचतुर्मूर्तये चतुर्गतमयाय
शरशाङ्गभृते शरदिन्दीवरत्विषे भगवतेऽभिरामशरीराय नमः । ॐविशदपरमार्थवेद-
विदे विदुषे व्यापकाय स्वामिन् नमः । ॐगरुडवाहन सर्वशस्त्रास्त्रोद्यत शमयाऽशुभं धुन
धुन कर्मबन्धान् धर्मं पाहि जहाधर्मं नमः । ॐसंहारमूर्तये कालवैश्वानरार्चिषे पाताल-
शयनाय अज्ञाननिगडनिचयं हन हन ॐनमः । इत्यष्टत्रिंशत्पदमन्त्राः ॥ ४६-११३ ॥