सामग्री पर जाएँ
सर्वकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 587, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 587

५२८ सात्वतसंहिता
नाभिदेशाद् द्वितीयं यद् विद्धि सप्तदशं तु तत् ॥ २० ॥
नवमं नाभिदेशाच्च सप्तमस्योपरि न्यसेत् ।
अथाष्टमं नाभिदेशात् कुर्यात् सप्तममूर्ध्वगम् ॥ २१ ॥
द्वितीयमपि तस्याधस्तस्माद् वै नाभिमण्डलात् ।
अरात् त्रयोदशादूर्ध्वं न्यूनविंशतिमं तु तत् ॥ २२ ॥
नाभेश्चतुर्थं तस्योर्ध्वे तत्तृतीयं तदूर्ध्वगम् ।
तत्रैव सप्तमं यद् वै विद्धि विंशतिमं त्विदम् ॥ २३ ॥
द्वितीयस्याष्टमं नाभेर्वर्णस्योर्ध्वे नियोज्य च ।
अरात् षष्ठं च तस्याधः कुर्यात् तदनु लाङ्गलिन् ॥ २४ ॥
नवमं नाभिदेशाच्च तृतीयस्योपरि न्यसेत् ।
द्वितीयं तदधः कुर्यात् त्रयोविंशतिमं शृणु ॥ २५ ॥
अष्टमं सप्तमं नाभेर्द्वितीयं प्रथमं ततः ।
क्रमेण योजयेच्चैव अरात् षष्ठस्य मूर्धनि ॥ २६ ॥
नेमेः सप्तममादाय तदधो नाभिसप्तमम् ।
तत्तृतीयं च तस्याधश्चतुर्विंशतिमं स्मृतम् ॥ २७ ॥
नाभेस्तृतीयं तस्योर्ध्वे द्वितीयं तस्य चोपरि ।
निवेश्य नेमिपूर्वं तु षड्विंशमधुनोच्यते ॥ २८ ॥
अरात् षष्ठासनं कुर्याद् वर्णं नाभितृतीयकम् ।
तदूर्ध्वे सप्तमं चैव अतोऽन्यमवधारय ॥ २९ ॥
न्यूनं षड्विंशतिं नेमेस्तस्योर्ध्वाधोगतं न्यसेत् ।
सप्तमं नाभिवर्णेभ्यस्त्वरवर्गाच्च पञ्चमम् ॥ ३० ॥
नेमेराद्यद्वितीयं च आदाय तदधो न्यसेत् ।
मध्यमक्षान्महाबुद्धेरष्टाविंशतिमं स्मृतम् ॥ ३१ ॥
नवमं सप्तमं नाभेस्तृतीयं च तृतीयकम् ।
अथोत्तरस्थमक्षाच्च आदाय तदधो न्यसेत् ॥ ३२ ॥
तृतीयं च द्वितीयं च नाभिदेशादनन्तरम् ।
नाभिद्वितीयमादाय सप्तमं तुर्यमेव च ॥ ३३ ॥
तृतीयस्याथ वै नाभेर्बाहादाद्यं तु मूर्धगम् ।
ततस्तु नवमं नाभेरक्षमध्यस्थमूर्ध्वगम् ॥ ३४ ॥
अष्टमस्याथ वै नाभेरथ ऊर्ध्वे द्वितीयकम् ।