सामग्री पर जाएँ
सर्वकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 586, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 586

त्रयोविंशः परिच्छेदः ५२७
अथोत्तरं चाक्षदेशादादाय तदधो न्यसेत्।
बीजं नेमेर्द्वितीयं यन्मध्यान्मध्यं तदासने ॥ ५ ॥
आधारषष्ठसंरूढं कुर्याद् वै नाभिसप्तकम्।
अष्टमं च तदूर्ध्वे तु एतद् विद्धि तृतीयकम् ॥ ६ ॥
नाभ्यष्टममथादाय अरात् षष्ठासनस्थितम्।
ततो नाभिद्वितीयस्य क्रमेणाधो निवेश्य च ॥ ७ ॥
तदुद्देशात् तृतीयं च सप्तमं तुर्यमेव च।
अथादाय च नेमेः प्राक् तदधो नाभिसप्तमम् ॥ ८ ॥
तस्याप्यधस्तदुद्देशात् तृतीयं विनिवेश्य च।
ततस्तु नवमं नाभेस्तस्योर्ध्वाधोगतं न्यसेत् ॥ ९ ॥
तत्रैव यद् द्वितीयं तु तत्पिण्डं विद्धि सप्तमम्।
अरात् षष्ठस्य चोर्ध्वे तु नाभिपूर्वं तु विन्यसेत् ॥ १० ॥
सप्तमं चाष्टमं चापि ह्युपर्युपरि वै क्रमात्।
अथाष्टमं नाभिदेशादारूढं सप्तमोपरि ॥ ११ ॥
तदधो मध्यगं चाक्षान्नवमं परिकीर्तितम्।
भूयोऽरात् पञ्चमस्योर्ध्वे दद्यान्नाभितृतीयकम् ॥ १२ ॥
बाह्यात् तृतीयं तन्मूर्ध्ना पिण्डोऽयं दशमः स्मृतः।
द्वितीयं नाभिदेशाच्च तत्तृतीयं तदूर्ध्वगम् ॥ १३ ॥
नेमेराद्यन्तमूर्ध्वं तु स्मृतमेकादशं त्विदम्।
अथो नाभिचतुर्थस्य सप्तमं विनिवेश्य च ॥ १४ ॥
तदधो नेमिपूर्वं तु एतद् द्वादशमं स्मृतम्।
नेमेस्त्रिदशमादाय तदधो योजयेत् क्रमात् ॥ १५ ॥
सप्तमं च चतुर्थं च पूर्वं नाभेर्महामते।
अरषष्ठासनाः सर्वे पिण्डमेतत् त्रयोदशम् ॥ १६ ॥
नाभेेश्चतुर्थमादाय तदूर्ध्वे सप्तमं न्यसेत्।
नवमं चापि तन्मूर्ध्नि एतद्विद्धि चतुर्दशम् ॥ १७ ॥
नेमेश्चतुर्थसंख्यस्य ऊर्ध्वाधोभ्यां निवेश्य च।
वर्णं नाभिद्वितीयं यत् तत्पञ्चदशमं स्मृतम् ॥ १८ ॥
यद्विंशसंख्यकं बाह्यादादायाराख्यमण्डलात्।
सान्तिमेन च षष्ठेन युक्तं कुर्यादनन्तरम् ॥ १९ ॥
नेमेः सप्तमवर्णस्य ऊर्ध्वाधोभ्यां निवेश्य च।