सामग्री पर जाएँ
सर्वकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 561, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 561

५०२ सात्वतसंहिता
शयनासनयानाद्यं तदीयम्भिवादयेत् ।
अतन्द्रितः सदा कुर्याद् व्यापारं तद्गृहेऽखिलम् ॥ ५ ॥
नासने तत्समक्षं च वस्तव्यं न च दक्षिणे ।
सुयन्त्रितः संयतवाक् तदाज्ञासम्प्रतीक्षकः ॥ ६ ॥
तत्सन्निधौ तु नान्येषां प्रत्युत्थानं समाचरेत् ।
कुर्यात् संशयविच्छित्तिं न तदादेशतो विना ॥ ७ ॥
गुरोर्देवस्य तत्तद्वाहनस्य च छायोल्लङ्घनं न कार्यमित्याह—नेत्यर्धेन । आचार्य-
पुत्रकलत्रादिषु चाचार्यदृष्टिः कार्येत्याह—गुरुवदित्यर्धेन । गुरोः शयनासनादीनामपि
नमस्कारः कार्य इत्याह—शयनेत्यर्धेन । आचार्यगृहकृत्येषु जागरुकेण भवितव्य-
मित्याह—अतन्द्रित इत्यर्धेन । गुरोः समक्षमासनोपरि वा तद्दक्षिणभागे वा न
वर्तितव्यमित्याह—नेत्यर्धेन । गुरुसन्निधाववहितो मितभाषी तदाज्ञाप्रतीक्षकश्च भूयादि-
त्याह—सुयन्त्रित इत्यर्धेन । गुरुसन्निधावन्येषां प्रत्युत्थानादिकं न कुर्यादित्याह—
तदित्यर्धेन । गुर्वाज्ञां विना पृच्छकाणां संशयविच्छेदनं न कुर्यादित्याह—कुर्या-
दित्यर्धेन ॥ ४-७ ॥
शिष्य गुरु देवता तथा उनके वाहन की छाया का उल्लङ्घन न करे । गुरु के
समान गुरुवर्ग में भी श्रद्धा बुद्धि रखे ॥ ४ ॥
गुरु के शयन आसनादि को नमस्कार करे । उनके घर का समस्त व्यापार
सावधानी से करे ॥ ५ ॥
उनके सामने आसन पर न बैठे । उनके दाहिनी ओर न रहे । गुरु के
सन्निधान में सर्वदा अवहित ( मितभाषी तथा उनकी आज्ञा की प्रतीक्षा करे ॥ ६ ॥
गुरु के सन्निधान में अन्य को प्रत्युत्थानादि न करे तथा गुरु की आज्ञा के
बिना अन्य किसी पृच्छक के संशय का समाधान न करे ॥ ७ ॥
व्याख्यानमागमानां च योगाभ्यासश्च धारणा ।
अवश्यकार्याण्येतानि स्वगृहे न गुरोर्गृहे ॥ ८ ॥
आगमव्याख्यादीनां स्वगृह एव कर्तव्यत्वमाचार्यगृहे तन्निषेधं चाह—व्याख्यान-
मिति ॥ ८ ॥
आगमों का व्याख्यान, योगाभ्यास एवं धारणा आदि सभी आवश्यक कार्य
अपने घर पर ही करे । गुरु के गृह में कदापि न करे ॥ ८ ॥
भोजननियमविधानम्
न शङ्खचक्रपद्माङ्के भोक्तव्यं भाजने तु वै ।
तल्लक्ष्म चोपलं काष्ठं लोष्टं वा फलकादिकम् ॥ ९ ॥