सामग्री पर जाएँ
सर्वकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 553, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 553

४९४ सात्वतसंहिता
द्दिदृश्य क्रियमाणदीक्षाक्रमेऽपि भगवदनुग्रहवशात् सद्यस्तन्मन्त्रसिद्धिलिङ्गदर्शनादौ
तत्काल एवाभिषेकोऽपि संभवत्येव ।
प्रक्षेपयेन्मण्डलान्तर्नेत्रबन्धं विमुच्य च ॥
अष्टाङ्गप्रणिपातैस्तु प्रदक्षिणयुतैस्ततः ।
देवश्चाग्निर्गुरुः कुम्भः पूजनीयः पुनः पुनः ॥
तत्कालं भक्तिभावेन विज्ञाता योग्यता यदा ।
तीव्रमन्दधियां तेषां तदा दीक्षां समाचरेत् ॥ (१७।११६-११८)
इति समयिपुत्रकाणां भक्त्यतिशये तीव्रबुद्धित्वे च तदानीमेव दीक्षाचरणं सुस्पष्टं
प्रतिपादितं हि ।
ननु पुत्रकाणां दीक्षाचरणकथनं तत्र किं साधकमिति चेत्, जरकुड्य-
दुःशङ्कापरिहरणं चतुर्मुखस्याप्यशक्यम् ।
कृत्वा. निरीक्षणाद्यं च देवधाम्नि तु क्षेपयेत् ।
तुष्टो मन्त्रमयं सम्यक् सार्घ्यपुष्पाहिताञ्जलिः ॥ (२२।३१)
इति वक्ष्यमाणलक्षणानुसारेण पुष्पाञ्जलिप्रक्षेपाद्यनन्तरं हि पुत्रकत्वं सिद्ध्यति ।
तदा पुत्रकपदारूढस्यापि तदानीमेव दीक्षाचरणकथनं तत्र साधकं (कथं) न भवेत्,
"सिद्धये द्रुतहेमाभम्" (२०।१९) इत्युक्तत्वात् । "ध्यात्वा तं स्फटिकामलम्"
(२०।९२) इत्यत्र मुक्तय इति ज्ञेयम् । "स्वाहान्तं भोगसिद्धयर्थं नमोऽन्तं मोक्ष-
सिद्धये" (१९।८५) इति पूर्वमेवोक्तं हि । यथार्हदण्डसहितं तत्तद्वर्णाश्रमविहितदण्ड-
मित्यर्थः । एतेन "काषाये क्षौमवाससी" (२०।१७) इत्यपि व्याख्याते ॥ ४-१८॥
साधक को भगवत्तत्त्व वेत्ताओं के एवं पञ्चकाल भगवान् में निरतात्मा लोगों
के तथा संहिता का मर्म जानने वालों के सन्निधान में यह अभिषेक क्रिया करनी
चाहिये ॥ ४ ॥
इसी प्रकार अपने लक्ष्य का ध्यान करने वाले यतियों तथा साधकों के
सन्निधान में भी यह अभिषेक क्रिया की जानी चाहिये । देवाधिदेव के सामने
चौकोर मण्डप का निर्माण करना चाहिये । उस मण्डप को अभिषेक के लिये
उपयुक्त समस्त उपकरणों से युक्त करना चाहिये । उसके मध्य में भद्रासन का
निर्माण करे । उसमें अनन्तादि धर्मादि के लिये आसनादि निर्माण करे ॥ ५-६ ॥
पूजयित्वाऽर्घ्यपुष्पाद्यैस्ततो देवस्य सम्मुखम् ।
बद्धपद्मासनं शिष्यं तत्रारोप्य कृताञ्जलिम् ॥ ७ ॥
कान्ताभिर्गीयमानं तु स्तूयमानं च वन्दिभिः ।
शङ्खाद्यैर्ध्मायमानं तु पाठ्यमानं तु मङ्गलैः ॥ ८ ॥
जपमानं परं मन्त्रं ध्यायमानमिवाच्युतम् ।
अष्टाङ्गेणार्चयित्वा तु कुम्भमादाय वैष्णवम् ॥ ९ ॥