सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 533, कुल 837 में से
संदर्भ में पढ़ें४७४ सात्वतसंहिता
क्षमान्तानां बीजतां गतम्'' (१८।१३५) इति पूर्वोक्तेः । साधारं प्रणवासनविश्रान्तमि-
त्यर्थः । शक्तिमान् शक्तिमत्त्वेन ध्यातं शिष्यचैतन्यमित्यर्थः । तत्र शिष्यविग्रह इत्यर्थः ।
तत्समाधौ पूर्वोक्तजपध्यानेकलक्षणे समाधावित्यर्थः । आप्यं देहमापाद्य सूक्ष्मदेहं
सम्पाद्येत्यर्थः । होमध्यानादिना हृन्मन्त्रहोमादिनेत्यर्थः । अधिकारपूर्वम् अधिकार-
भोगाधिकमित्यर्थः । पदसंयुक्तं पदाध्वसंयुक्तमित्यर्थः । तेनाक्रान्तं शक्तिसहितशक्ति-
मताक्रान्तमित्यर्थः । तत्स्थं मन्त्रसमूहं नारायणादिसप्तमन्त्रसमूहमित्यर्थः । तत्पतिना सह
सरश्शायिना सार्धमित्यर्थः । पूर्ववत् श्रावयित्वा पूर्वोक्तप्रार्थनाश्लोकान् श्रावयित्वे-
त्यर्थः । किन्तु तत्र यथावत् पार्थिवो गुण इत्यत्र यथावच्चाम्भयो गुण इति, गन्ध-
तन्मात्रमित्यत्र रसन्मात्रमिति, हे धराधिपते इत्यत्र हे जलाधिपते इति च योज्यम् ।
एवमुत्तरत्रापि ज्ञेयम् ॥ १०५-१०९ ॥
अब जल तत्त्व का संस्कार कहते हैं—इसके बाद शिष्य के देह में
आचार्य आधार सहित अम्मय बीज 'ॐ अं नमः' का न्यास करे । फिर कुण्ड के
मध्य में पूर्ववत् जीव शक्ति का अनुसंधान करे । उसके शक्तिमान् का नियोजन करे
उसके अनुसंधान में कुम्भक का प्रयोग करे । इस प्रकार होम ध्यान द्वारा उसके
सूक्ष्म देह का सम्पादन करे । फिर हे नारायण! हे नाथ! आज से लेकर आप इस
कर्मी, मेरे शिष्य के मोक्ष में आने वाले विघ्न का विनाश करे । हे जलाधिप !
इसके शरीर में अम्मय गुण देह पात पर्यन्त बना रहे । रस तन्मात्रा विद्यमान रहे ।
इस प्रकार की प्रार्थना करे ॥ १०५-१०९ ॥
मनोऽवसानं नीत्वैवं तं वर्णाध्वोर्ध्वगोचरम् ।
निष्ठाङ्गेन महाबुद्धे तेजसाऽस्त्रेण चेच्छया ॥ ११० ॥
समुद्धृत्याथ वै प्राग्वद् योक्तव्यं बुद्धिगोचरे ।
षडध्वमुक्तमूलेन प्राप्तसंज्ञं च तं शिशुम् ॥ १११ ॥
तत्त्वकञ्चुकनिर्मुक्तं शान्तात्मन्येकतां गतम् ।
स्मृत्वा शक्त्यात्मनाऽग्नौ तु लब्धलक्षं परे पदे ॥ ११२ ॥
ऐश्वरेण तु बीजेन प्रोक्तसत्त्वान्वितेन च ।
ततः संवेद्यनिर्मुक्ते समाधौ विनियोज्य च ॥ ११३ ॥
न वेत्ति यत्र संलीनं सानन्दं द्वैतमात्रकम् ।
एवं तेजस्तत्त्वप्रभृतिमनस्तत्त्वान्तानां मन्त्राध्वादिवर्णाध्वान्तसहितानां चतुर्णां
क्रमेण संस्काराः कार्या इत्याह—मनोऽवसानमित्यर्धेन ।
अथ नेत्रमन्त्रेणास्त्रमन्त्रेण वा शक्तिमतः शिष्यचैतन्यस्य बुद्धिमयेऽध्वनि योजनं
तच्छक्त्याः पूर्ववदग्नौ योजनम् ऐश्वरेण बीजेन जपध्यानेकलक्षणे समाधौ नियोजनं
चाह—निष्ठाङ्गेनेति चतुर्भिः । निष्ठाङ्गेन = चरमाङ्गेनेत्यर्थः । इदं तेजोऽस्त्रमन्त्र-
योरुभयोरपि विशेषणं बोध्यम् । यतः—
प्राधान्येन त्वथैश्वर्यं मोक्षो यत्रानुषङ्गतः ॥